पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

गन्धादिदानप्रकार: | मत्रोचारणानन्तरं गन्धादिदानवाक्यप्रयोगो- ब्रह्मपुराणे, तथा इदं वचः [वासः] पाद्यमर्थ्यपुष्पधूपविलेपनम् । अयं दीपः प्रकाशश्च विश्वेदेवाः समर्प्यते ॥ २२५ अयं वो दीप इत्युक्त्वा दीपं हृद्यं निवेदयेत् | अनङ्गलनं सहस्रं भवेद्यत्तद्युगं शुभम् ॥ इदं वो वस्त्रमित्युक्त्वा त्रितयं वा निवेदयेत् | अत्र दीयमानगन्धादिस्वीकारकाले ब्राह्मणवाच्यं देवलनोक्तम् । “इदं ज्योतिरितिज्योतिः, सुज्योतिरिति सेऽपि च”ति । इदं वो ज्योतिरिति ज्योतिः श्राद्धकर्ता निवेदयेत् । तेऽपि चेति । तेऽपि विप्राः सुज्योतिरिति ब्रूयुरित्यर्थः । अत्र चशब्देन आसमादिततत्पदार्थ स्वीकारकाले स्वासनं स्वयै सुगन्धः सुपुष्पाणि सुधूपः सुदीपः स्वाच्छानमिति ते ब्रूयुरिस्थेतदुक्तं भवति । अत्रा- च्छादनदानयज्ञोपवीतदानानन्तरं यथाशक्त्यलङ्ङ्करणछत्र कमण्ड ल्वादीनि देयानीति । तदाने तु सङ्कल्पमात्रं तदा । सम्पादनं तु ब्रा ह्मणप्रस्थापनकाल एच कर्त्तव्यमिति हेमाद्रिः । तदेवं गन्धादिदानं कृत्वा कृताञ्जलिः श्राद्धकर्त्ता "आदित्या रुद्रा वसव" इत्येतामृचं जपेत् । तथा च ब्रह्मपुराणे लिङ्गदर्शनम् | तानार्च्य भूयो गन्धाद्यैर्धूपं दत्वा च भक्तितः । आदित्या रुद्रा वसव इत्येतामजपत्प्रभुः ॥ इति । मादित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम् । सजोषसो यशमवन्तु देवा ऊर्ध्वं कृण्वन्त्वध्वरस्य केतुमिति । विष्णुधर्मोत्तरे तु ब्राह्मणानवलोकयन्त्रिमामृचं जपेदित्युक्तम् । सम्पूज्य गन्धपुष्पाद्यैर्ब्राह्मणान्प्रयतः सदा । आदित्या रुद्रा वसवो द्विजान् वक्षिंस्ततो जपेत् ॥ सम्पूज्य ततस्तान् वीक्षयेत् । अत्र जपवीक्षणयोरेककालतैव, वी. संस्ततो जपेदिति श्रवणात् | विष्णुना तुकरणत्वमस्य मन्त्रस्योक्तम् । "विप्रान्समभ्य र्यादित्या रुद्रा वसव इति वीक्ष्येति । अस्मिन्पक्षे श्रीक्षणाङ्गत्वान्मन्त्रोऽपि प्रतिब्राह्मणमावर्त्तते । न च वीक्षणमपि सक्क दो० मि २६