पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्नौकरणेतिकर्तव्यता । अथाग्नीकरणम् । २२७ याज्ञवल्क्यः । अग्नौ करिष्यन्नादाय पृच्छत्यन्न घृतप्लुतम् । कुरुष्वेत्यभ्यनुज्ञातो हुत्वा मौपितृयशवत् || घृतप्लुतमनमादायेत्यन्वयः । पृच्छारूपच कात्यायनेनोक्तं "उद्धृत्य घृताकमनं पृच्छत्यग्नौ करिष्ये” इति । कुरुष्वेत्यभ्यनुज्ञात इति । कौतु करोमीति प्रश्नः | कृत्वा समाहितं चित्तं मन्त्रयेद् वै करोमि च । अनुशातः कुरुष्वेति । बौधायने तु अग्नौ करिष्यामीति पृष्ट्वा तैरनुज्ञात इत्यर्थः । आश्वलायनेतु उद्धृत्य घृताक्तमन्नभनुशापयति । अग्नौ करिध्ये, करबै, करवाणीति वा । प्रत्यभ्यनुज्ञा क्रियतां, कुरुष्व, कुर्विति । आपस्तम्बेन तु सरस्वत्युत्तरवासिना विशेष उक्तः "उदीच्यवृत्ति स्त्वासनगतानां इस्तेषूदकपात्रानयन उद्धयितामझौ च क्रियतामि स्यामन्त्रय ते काममुद्भयितां काममग्झौच क्रियतामित्यतिसृष्ठ उद्धरेत् जुहुयाच्चेति” । उदीच्याः = सरस्वत्युत्तरतीरवासिनः । प्रागुदवौ विभजते हंसः क्षीरोदके यथा । विदुषां शब्दसिध्यर्थ सा नः पातु सरस्वती || इति वृद्धोफेरिति हेमाद्रि । वृत्तिः = आचारः । पणहोमे तु शौनके विशेषः । अनग्निश्वेदाज्यं गृहीत्वा भवत्स्वेवानौ करणमिति पूर्ववत् त थास्त्वितीति । आज्यं = तन्मिश्रमन्नम् । पूर्ववत् = करिष्य इत्यादि प्रकारेण । तथा स्विति=क्रियतामित्यादिप्रकारेणेत्यर्थः । अनेन च पाणिहोमेऽनुशा नास्तीति स्मृत्यर्थसारोकं परास्तम्। अजकर्णादी होमे तु अग्नौ क रणं करिष्य इत्येव प्रयोग इति हेमाद्रिः । प्रश्नश्च सर्वान् पडिमूर्द्धन्य प्रति वा । "अथोद्धृत्यामि पासून्य सर्वान्वा पृच्छति अनौ करिष्य” इति हारीतोकॆः । प्रश्नश्च पित्र्यब्राह्यणानामेघ, "पैतृकैरभ्यनु मातो जुहोति यशवदिति पारस्करोफेः । अत्र विशेषो-