पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

२२८ वीरमित्रोदयस्य श्राद्धप्रकाशे- जुहुयायञ्जनक्षार वर्जमनं ततोऽनले ॥ इति । विष्णुपुराणे । यत्त ब्रह्माण्डे । पुष्पाणां च फलानां च भक्ष्याणां च प्रयत्नतः । अग्रमुद्धृत्य सर्वेषां जुहुयाज्जातवेदास ॥ इति । अविशेषेण होमस्मरणं तदन्नाभावे फलपुष्पादिद्रव्यकश्राद्ध विषयम् । न चैतादृशविषयेऽन्नौकरणाभाव इति जयन्तमतं युक्तम् । आमश्राद्धं यदा कुर्याद्विधिशः श्रद्धयान्वितः । तेनानौ करणं कुर्यात्पिण्डांस्तेनैव निर्वपेत् ॥ इति मत्स्य पुराणे तत्राप्यन्नौकरणोक्तेः । अथवा आपस्तम्बविषयं, तेषामझौकरणहोमोत्तरं तदङ्गतया व्यञ्जनक्षारसहितानहोमस्य न क्षारलवणहोमो विद्यते तथापरान्नसंसृष्टस्याहविष्यस्य होम उदीचीममुष्णं भस्मापोह्य तस्मिन् जुहुयात्चद्धुतमहुतं चेत्यादिना विहित स्वादिति हेमाद्रिः । अयं च होम आहितानेः सर्वाधानिनो दक्षिणामौ "आहिताग्निस्तु जुहुयाद् दक्षिणानौ समाहितः” इति विष्णुधर्मोक्कैिः 1 अर्धाधानिनः केवलौपासनिनश्चौपासने "अनाहिताग्निश्चोपसद” इति तत्रैवोक्तेः । अत्र चकारादर्घाधानीति स्मृतिचन्द्रिकादयः । अर्धाधानिनो- sपि दक्षिणानावेव, आहिताग्नित्वाविशेषादिति कल्पतरुप्रभृतयः । अप रिग्रहेणासन्निधानादिना वाग्भ्यभावे विप्रपाणौ - अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् । इति मनूकेः । विप्रश्च पित्र्यपङ्किमूर्द्धन्यो देवविप्रमूर्द्धन्यो वा । पित्र्ये यः पङ्किमूर्द्धन्यस्तस्य पाणावननिकः | कृत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत् ॥ इति कात्यायनोक्तेः । निरनिको यदा विप्रः श्रद्धं कुर्यात् तु पार्वणम् । अनौकरणवत्तत्र होमो दैवकरे भवेत् ॥ इति कश्यपोक्तेश्च । अत्र च विकल्पो न समुच्चयः, अङ्गभूताधिकरणानुराधेन प्रधानावृत्तेरन्याय्यत्वात् । तत्रापि पितृमातामहश्राद्धयो ब्राह्मणभेद आवृतिः, गृह्यमाणविशेषत्वात्, अभेदे तु तन्त्रम् | एच भाद्धद्वये वैश्वदेविकतन्त्रत्वे वैश्वदेवेऽनौकरणपक्षे सक्कदेव, भेदे तु भेदः । अग्नौ तु तत्करणे सर्वदा तन्त्रम् | अथवा यदा यज्ञोपवीतस्वाहा