पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्नौकरणेतिकर्तव्यता | २२९ कारेतिकर्त्तव्यतया क्रियते तदा दैवे, यदा प्राचीनावी तस्वधाकारेति कर्त्तव्यतया तदा पित्र्ये, इति व्यवस्थासम्भवेऽव्यवस्थाया अन्याय्य त्वादित्याह हेमाद्रिः | आश्वलायनसूत्रे सर्वपित्रादिब्राह्मणोन्वित्युक्तम् । अभ्यनुज्ञायां पाणिषु च वेति बहुवचनात् । अत्राप्येकाहुतिर्विभज्य दया प्रत्येकं वा द्वे द्वे आहुती इति वृत्तिकृत् । ननु - आइत्य दक्षिणानि तु होमार्थं वै प्रयत्नतः । अग्न्यर्थे लौकिकं वापि जुहुयात् कर्मसिद्धये ॥ इति वायवीये लौकिकान्निग्रहणात् कथमग्न्यभावे पाणिविधिरि ति चेत् । न | तस्यावसथ्याग्निपरत्वादिति कल्पतरु । आहृत्य दक्षिणाभिं त्विति समभिन्याहारात् सर्वाधानिनः प्रवा सादिना दक्षिणाग्न्यसन्निधाने लौकिकानिविधानं इति स्मृतिचन्द्रिका- कारादयः । तस्मादस्त्यग्न्यभावे पाणिविधेरवकाशः । आपस्तम्बीयास्तु अग्न्यभावे सर्वदा लौकिकानावाचरन्ति । आश्वलायनगृह्यपरिशिष्टे तु अन्वष्टक्यं च पूर्वेधुर्मासिमास्यथ पार्वणम् । काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टमथाष्टमम् । चतुवधेषु साझीनां वहौ होमो विधीयते ॥ पित्र्यब्राह्मणहस्ते स्यादुतरेषु चतुर्ष्वपि । इति अग्निपाण्योर्व्यवस्था उक्ता सा आश्वलायनानामेव द्रष्टव्या | "अग्न्यभावे तु विप्रस्य" इत्यादि वाक्यविरोदिति बहवः । अत्र अन्वष्टक्यम्-अन्वष्टका श्राद्धं । पूर्वेयुः =अष्टकापूर्वेधुः सप्तम्यां क्रि यमाणम् । मासिमासि=प्रतिमासं कृष्णपक्षे क्रियमाणम् | पार्वणम् = अमावास्याश्राद्धम् | काम्यम्=प्रतिपदादिषु वनकामनया क्रियमाणम् | अभ्युदये = पुत्रजन्मादौ । || अष्टम्याम् तत्र विहितमष्टका श्राद्धम् | एकोद्दिष्टम् = सपिण्डीकरणम् | अंशे तत्र तत्सत्वात्, मुख्यैकोद्दिष्टेऽग्नौकरणाभावादिति हेमाद्रिः । बड्चमाष्यकारस्त्वविशेषात्सर्वस्मिन्ने कोद्दिष्टेऽपाणिहोममाह । पाण्यभावे चाजकर्णादिषु कार्यम् । तथा च मात्स्ये | अग्यभावे तु विप्रस्य पाणौ वाथ जलेऽपि वा । अजकर्णेऽश्वकर्णे वा गोष्ठे बाथ शिवान्तिके |