पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

२३० वीरमित्रोदयस्य श्राद्धप्रकाशे- अजकर्ण इति कल्पतरुकामरूपमदनरत्नादौ पाठः, सोऽपपाठः, शङ्गविरोधात् । अजस्य दक्षिणे कर्णे पाणौ विप्रस्य दक्षिणे | अप्सु चैव कुशस्तम्बे अग्निं कात्यायनोऽब्रवीत् ॥ रजते च सुवर्णे च नित्यं वसति पावकः ॥ इति । अनि कात्यायन इत्यभेदोक्तिः स्तुत्यर्था । अत्र यद्यपि तुल्यवद्विकल्पः प्रतिभाति तथापि “अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत्” इत्यत्रैवकारग्रहणात्पाणिर्मुख्यस्तदभावेऽजादय इति हेमाद्रिः । समविकल्प इति बहवः । अप्सु होमस्तु जलसमीपे श्राद्धकरणे । विष्णुधर्मोत्तरे चाप्सु मार्कण्डेयेन यः स्मृतः । स यदाऽपां समीपे स्याच्छ्राद्ध ज्ञेयो विधिस्तदा ॥ इति मदनरने कात्यायने नोक्के । अत्र च याज्ञवल्क्येन पितृयज्ञवदि त्यनेनाग्नौकरणहोमे पिण्डपितृयज्ञधर्मातिदेशः कृतः । ते च धर्मा आपस्तम्बेनोक्ताः । “दक्षिणाप्रागप्रैर्दमैदक्षिणमझिं परिस्तीर्य दक्षि णं जान्वाथ्य मेक्षणेनोपस्तीर्ये "त्यादिना | सुयज्ञेनापि परिसमूह्य पर्युक्ष्य परिस्तीर्य दक्षिणं जान्वाच्य यज्ञो- पवीती प्राङासीनो मेक्षणेन जुहोतीति । आश्वलायनेनापि । प्राचीनावीत ममुपसमाधाय मेक्षणेनावदाया- बढ़ानसम्पदा जुहुयादित्यादिना । हारीतेन तु विशेष उक्तः । समितन्त्रेण प्राङ्मुखो मेक्षणेना इति. ह्वयं हुत्वेति । समितन्त्रेण = आहुतिद्वयार्थ एकैचसमिदिति स्मृतिचन्द्रि- काकारः । ब्रह्माण्डपुराणे समित्रयमुक्तम्- दद्यात्तु समिधस्ति नस्तस्मिन्प्रादेशमात्रिकाः । घृताकाः समिधो हुत्वा दक्षिणाग्राः समन्त्रकाः ॥ इति । समिल्लक्षणमाहिके परिभाषायामुक्तम् । समिदांवृक्षास्तत्रैव- पलाशफल्गुन्यग्रोधप्लक्षाइवस्थावकङ्कृताः । उदुम्बरस्तथाबिल्वान्दन यज्ञियाश्च ये || सरलो देवदारुच सालश्च खदिरस्तथा । माझा कण्टाकनश्चैव यशिया ये च केचन |