पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्नौकरणेतिकर्तव्यता । पूजिताः समिदर्थे ते पितॄणां वचनं यथा । अनस्तु - श्लेष्मातको नक्तमालः कपित्थः शाल्मलस्तथा । नीपो विभीनकश्चैव श्राद्धकर्मणि गर्हिताः ॥ चिरबिल्वस्तथा टङ्कस्तिन्दुका भ्रात कौ तथा । बिल्वक: कोविदारच एते श्राद्धे विगर्हिताः ॥ निवासाश्चैव कीटानां गर्हिताः स्युरयज्ञियाः । अन्यांश्चैवंविधान् सर्वान् वर्जयेद्वै अयज्ञियान् ॥ फल्गु = काकोदुम्बरिका । टङ्कः = हिमारक' । अथ देवतामन्त्रादयः । २३१ मनुवृहस्पती - अग्नेः सोमयमाभ्यां च कृत्वाप्यायनमादितः । हविर्दानेन विधिवत् पश्चात्सन्तर्पयेत्पितॄन् । इति । अग्न्यादीनां प्रथमं होमेनाप्यायनं कृत्वा पञ्चात्पितॄन्य जोदित्यर्थः । अत्र यद्यपि सोमयमाभ्यामिति द्वन्द्वोत्तरचतुर्थ्या व्यासक्तं देव तात्वं प्रतीयते, तथापि न तद्विवक्षितं, प्रत्येकदेवतात्वावेदक मन्त्रा- हुतिसंख्यादीनां बहुलं दर्शनात् । किञ्च षष्ठ्यर्थ एषा चतुर्थी; अन्य- थाप्यायनपदानन्वयापत्तेः । हृश्यते च पाठान्तरमपि "अग्निसोमयमानां चे" ति, तस्मात्प्रत्येकं देवतात्वम् । अतएव - यमः- अग्नये चैव सोमाय यमाय जुहुयात्ततः । अग्नये हव्यवाहाय स्वाहेति जुहुयाद्धविः ॥ सोमाय च पितृमते यमायाङ्गिरसे तथा ॥ इति । मार्कण्डेयेन द्वे आहुती, अझये कव्यवाहनाय स्वाहेति प्रथमाहुतिः । सोमाय वै पितृमते स्वाहेत्यन्या तथा भवेत् ॥ इति । वैशब्दः पादपूरणार्थो न मन्त्रान्तर्गतः । एतदेवविपरीतमाह - गोभिलः, मेक्षणेनोपघातं जुहुयात्स्वाहा सोमाय पितृमत इति पूर्व, स्वा हामये कव्यवाहनायत द्वितीयम् । अत ऊर्ध्वं प्राचीनावीतीति । ऊर्ध्वमित्युक्तेः पूर्व यज्ञोपवीतीति गम्यते ।