पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- ब्रह्माण्डपुराणे -- अग्नये कम्ववाहनाय स्वधा नम इति ब्रुवन् । सोमाय च पितृमते स्वधा नम इति ब्रुधन् ॥ थमायाङ्गिरस्वते स्वधा नम इति ब्रुवन् । इत्येते होममन्त्रास्तु त्रयाणामनुपूर्वशः ॥ देशविशेषोऽपि तत्रैव- दक्षिणतोऽझये नित्यं सोमायोत्तरतस्तथा । एतयोरन्तरे नित्यं जुहुया द्वै विषस्थत इति ॥ आश्वलायनः । सोमाय पितृमते स्वधा नमः, अग्नये कब्यवाहनाय स्वधा नम इति दक्षिणाप्नौ जुहोति, यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयम् । अझये कव्यवाहनाय स्वधा नम इति तृतीयम् । न यमाय जुहोतीत्येक इति । सांख्यायनः । अग्नये कव्यवाहनाय स्वाहा, सोमाय पितृमते स्वाहा, यमा. यारस्वते पितृमते स्वाहेति । बैजवापः | अन्वाहार्यपचने मेक्षणेन द्वे आहुती जुहोत्यग्नये इति पूर्वी, सोमायेत्युत्तरामिति । अत्र केवलयोर्देवतास्वम् । यद्यप्येतदाश्वलाय नादिभिः पिण्डपितृयज्ञमधिकृत्योक्तम् । तथाप्यतिदेशादसौ करणे ऽपि कर्त्तव्यम् । आपस्तम्बेन तु त्रयोदशाहुतिकमझौकरणमुक्तम् । अन्नस्यो तराभिजुहोत्याज्याहुतीरुत्तरा इति । अत्रानशब्देन भोजनानं विवक्षितम्, षष्ट्या च सम्बन्धः, सौत्रो पादानोपादेयभावः । मन्त्रप्रपाठकमध्ये पूर्वविनियुक्ताम्य ऋग्मय ऊर्ध्व पठिता ऋच उत्तरास्ताभिः। अत्राहुतीनामुत्तरा, पश्चाद्भाविनीः॥ आज्या हुती होतीत्यनुषकः । लिङ्गविनियुक्तानामप्यनुष्ठानसौकार्याय विनि योगं भाष्यकारादय आहुः । यन्मे माता प्रलुलोभ चरति यास्तिष्ठन्तीति द्वाभ्याममुष्यै स्वाहेत्यन्ताभ्यां यन्मे पितामही प्रलुलोभ चरत्यन्तर्दधे पर्वतेरिति द्वाभ्यामृग्भ्याममुध्यै स्वाहेत्यन्ताभ्यां यन्मे प्रपितामही प्रलु लोभ चरन्त्यन्तर्दध ऋतुभिरिति द्वाभ्यामृग्भ्याममुध्यै स्वाहेत्यम्वा,