पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्नौकरणेतिकर्तव्यता । २३३ स्यामिति । अत्र सर्वत्र जुहोतीत्यनुषज्यते । अमुष्मा इत्यत्र चतुर्थ्यतं पितुर्नाम गृहीत्वा द्वे आहुती जुहुयात् । एवमुत्तरत्र द्वायांद्वा भ्यामृग्भ्यां चतुर्थ्यन्त पितामहस्य प्रपितामहस्य च नाम गृहीत्वा द्वे द्वे आहुती जुहुयात् । एवं महीनामपि पित्रादिपदस्थाने मातामहादिपदोहेन, मात्राने सातामह्यादिपदोहेन चतुर्थ्यन्तं च गृहोद्वे आहुती जुहुयात् । ततो ये चेह मातामहादिनाम पितर इत्पृचान्नादेवका माहु- जुहोति । ततः षडाज्याहुतीर्जुहोति । स्वाहा पित्रे पित्रे स्वाहेति मन्त्राभ्यां द्वे आज्याहुती हुत्वा पुनराभ्यामेव तृतीयचतुर्थ्यो हुत्वा स्वधास्वाहति मन्त्रेण पञ्चमीम्, अझये कव्यवाहनायेति षष्ठीं जुहोति । एनञ्च धर्मप्रश्नस्थालीपाकगृह्यो तेतिकत्र्त्तव्य- कार्यम् । तासहितं तथा च गृह्यभाष्यसङ्ग्रहकारः | अग्नीन्धनादिप्रतिपद्य कर्म कृत्वाऽऽज्यभागं तथावदाय यन्मेति मन्त्रैः प्रतिमन्त्रमझौकार्या, तथा सप्तभिरन्नहोमाः स्वाहादिमन्त्रैरापसर्पि षा स्युहमाः, ततः स्विष्टकृतं तु हुन्वा, भस्माद्यपोह्याहविरन्नहोमो पञ्चदशश्च समञ्जनादिशेषं च कृत्वा परिषेचनान्तं पात्रेषु दद्याद् हुतशेषमन्नमिति । सप्तभिरन्नहोम इत्यनूहित मन्त्राभिप्रायम् । अग्नौकरणे च सव्यासव्ययोर्विकल्पः । अग्नौकरणहोमस्तु कर्त्तव्य उपवीतिना । अपसव्येन वा कार्यो दक्षिणाभिमुखेन च ॥ इति छन्दोगपरिशिष्टे कात्यायनोक्तेः । प्राचीनावीतीध्ममुपसमाघाय मेक्षणेनावदायावदानसम्पदा जुहुयात्, सोमाय पितृमते स्वचा नमः, अग्नये कम्यवाहनाय स्वधा नम इति, स्वाहाकारण वा, अनिं पूर्व यज्ञोपवीतीत्याश्वलायनोकेश्च । तदेतत्सर्वे वैकल्पिकं पदार्थजातं यथाबारं यथाकल्पसूत्रगृह्यं वा व्यवस्थितं शेयम् । अनग्म्यधिकरणहोमपक्षे विशेषः । स्मृत्यर्थसारे, अत्र मेक्षणेष्मविप्रानुहा न सन्ति परिसमूहनपर्युक्षणे स्त इति । स्मृतिचन्द्रिका कारस्तु अनुशाभावं नेच्छति उक्तशौनकविरोधात् । मेक्षणं तु मेक्षणकार्येऽन्यस्याविधानात्भवत्येव, परिसमूहनपर्युक्षणे तु पांसुनिरसनडटकार्यालोपान्नियमाडच्डमात्रस्यचाप्रयोजकत्वात् ने. बी० मि ३०