पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीमित्रोदयस्य श्राद्धप्रकाशे- छति । अदृष्टार्थकत्वात्कायें इसन्ये । परिस्तरणं त्वदृष्टार्थत्वाद्भवत्येव । अग्नौकरणवद् नत्र होमो दैवकरे भवेत् । पर्यस्तदर्भानास्तीर्य यतो ह्यग्रिसमो हि सः || इति यमांकेश्च । पर्यस्तदर्भान्=परितः सर्वतोन्यसनीयान् । 'पर्युक्ष्य दर्भानास्तीर्ये'ति क्वचित्पाठस्तदा पर्युक्षणमपि भवत्येव । इध्मस्तु समिन्धनार्थत्वान्न भवत्येव । कर्कोपाध्यायास्तु - परिस्तग्णादीनि मेक्षणान्तानि अग्निहोमेऽपि न भवन्ति किं पुनः पाणौ, पिण्डपितृयज्ञवदुपचार इति कात्यायनवचनेन सर्वेतिकर्त्तव्य तायाः प्राप्तौ पिण्डपितृयश्चवद्धुत्वेति पुनर्वचनस्य परिस्तरणादिपरि- संख्यानार्थत्वादित्याहुः । तन्मतानुसारिणामाचारोप्येवम् । अथ हुतावशिष्टप्रतिपत्तिः । यमः । दैवधिप्रकरेऽनग्निः कृत्वा मौकरणं द्विजः । शेषयेपितृविप्रेभ्यः पिण्डार्थे शेषयेत् तथा ॥ अग्नौकरणशषं तु पित्र्येषु प्रतिपादयेत् । हुतशेषं न दद्यात्तु कदाचिद्वैश्वदेविके ॥ अत्र कदाचिदित्यनेन यदापि वैश्वदेविकविप्रकरे होमस्तदापि न तत्र हुवशेषप्रतिपत्तिरिति गम्यते । अत एष- वायुपुराणे | हुत्वा दैवकरेऽनग्निः शेषं पिध्ये निवेदयेत् | न हि स्मृताः शेषभाजो विश्वेदेवाः पुराणगैः ॥ इति । एतेन दैवविप्रकरेऽपि हुतशेषदानमिति गौड़निबन्धोकं परास्तम् । इदं च यदा पाणिहोमस्तदा पङ्किमूर्द्धन्यातिरिकेषु पितृपात्रेषु । पित्र्ये यः पङ्किमूर्द्धन्यस्तस्य पाणावनग्निकः । हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत् ॥ इति कात्यायनेनान्येषामित्युक्तोरीत प्रकाशकारः । अत्र चामन्त्रकः पात्रेषु प्रक्षेप उक्तः । हुत्वा त्वन्नौ ततः सम्यग्विधिनानेन मन्त्रवित् । स्वघेत्येव हविःशेषमादीत समस्य च ॥ इति ।