पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिवेषणप्रकार: । शेषमनं हस्तेन हस्तेषु पिण्डवत्प्रदायेति यमनिगमपरिशिष्टयोस्तु स्वघेतिमन्त्रेण हस्तेषु प्रक्षेप उक्तः । अनयोश्च विकल्पः, स यथाशास्त्रं व्यवस्थितः । एतच्चापसव्येन कार्य । त्व परिशिष्टं तु पितृपात्रेध्वनन्तरम् | निवेद्यैवापसव्येनेति शौनकोफेः । यत्पाणी हुतं यच्च पात्रेषु हस्तेषु वा प्रक्षिप्तं तद् द्वयमपि भोज्यावेन सह भोक्तव्यम् । यक्ष पाणितले दत्तं यच्चान्यदुपकल्पितम् । एकीभावन भोकव्यं पृथग्भावो न विद्यते ॥ इति । तथा । यदक्षं दीयते पाणी पात्रे वापि निधीयते । भुञ्जीरन ब्राह्मणास्तच पितृपङ्की निवेशिताः || इति गृह्यपरिशिष्टगार्ग्ययोर्वचनादिति हेमाद्रिः । अत्र पात्रे वापि निर्धा- यत इत्यनेन हुतशेषेमुच्यते पितृपङ्काविति समभिव्याद्दारात् । भो- ज्यानस्य वैश्वदेविकेऽपि समानत्वात्तद्भोजनविधो वैयर्थ्यात् । एतेन यदाश्वलायनव्याख्याकृतोकं यदि पाणिष्वाचान्तेष्वन्यदनमनुदिशाति सूत्रव्याख्याने परिवषणात्पूर्व विधीयमानमाचमनं पृथक पाणिहुतात्रभक्षणनिमित्तमिति तद्पास्तम् । अन्नं पाणितले दत्तं पूर्वमनन्त्यबुद्धयः | पितरस्तेन तृप्यन्ति शेषान्नं न लभन्ति ते । इति बहुच गृह्यपरिशिष्टे निषेधाच्च । आचमनं त्वदृष्टार्थ भवि ध्यति वचनादिति । हरिहरोऽप्येवम् । बौधायनस्तु । हुतशेषं प्रकृत्य "तस्मिंस्तु प्राशिते दद्याद्यदन्यत्प्रकृतं भवे" दिति हुतशेषस्य पृथग्भक्षणमाह | एतच्च बौधायनानामेवेति हेमाद्रिः । इति हुत्वा वशिष्टप्रतिपतिः । इत्यग्नोकरणम् | अथ परिवेषणम् | प्रचेताः । हुतशेष पितृभ्यस्तु दत्वान्नं परिवेषयेत् । अत्र हुत्तशेषप्रदानानन्तरं घृतेन दैवपूर्वकमाभासु पक्कमैरय इति मन्त्रेण तूष्णीं वा पात्राभिधारणमाचरन्ति । परिवेषणेतिकर्त्त व्यतामाह |