पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

२३६ मनुः वीरमित्रोदयस्य श्राद्धप्रकाशे- - पाणिभ्यामुपसंगृह्य स्वयमन्नस्य वर्द्धितम् | विप्रान्तिके पितॄन् घ्यायञ् शनकैरुपनिक्षिपेत् ॥ अन्नस्य वर्द्धितम्=पाकपात्रम् | पाकपात्रोधृतान्नपूर्णपात्रान्तरमिति मेधातिथिः । स्वयमिति मुख्यः पक्षः । पत्न्यादिरपि वक्ष्यते । विप्रा न्तिक उच्छिष्टस्पर्शादि यत्र न संभाव्यते तत्र | शनकैर्यथा पात्रभेदादि न भवति तथा । उपनिक्षिपेत् परिवेषणार्थी स्थापयेत् । मनुः । उभयोईस्तयोर्मुक्तं यदन्नमुपनीयते । तद्धि प्रलुपन्त्यसुराः सहसा दुष्टचेतसः । मुक्तम्=आस्थितम् । सप्तमी वा तृतीयायें । परिवेषण च देवपूर्वम् । “विधिना देवपूर्व तु परिवेषणमाचरे"दिति शौनकोफेः । एतच्चा द्यपरिषेषणे, द्वितीयादौ त्वनियमः | "यद्यद्रोचेत विप्रेभ्यस्तत्तद्दद्याद मत्लरी" इति यमेन विप्रेच्छानुविधानो केः। कर्त्तारो धर्मभविष्योत्तरयोः फलस्यानन्तता प्रोक्ता स्वयं तु परिवेषणे इति । भार्यया श्राद्धकाले तु प्रशस्तं परिवेषणम् ॥ इति । अत्र पत्न्याः प्राशस्त्योक्तेरन्येऽपि पाककर्तृप्रकरणेअनुशायन्ते । पक्षी च सवर्णा, द्विजातिस्पः सवर्णायानार्या हस्तेन दीयते इति नारायणोक्तेः । कर्त्तुर्धर्मविशेष:- पादूममात्स्ययोः । मनुरपि । उभाभ्यामथ हस्ताभ्यामाहृत्य परिवेषयेत् | प्रशान्तचित्तः सतिलदर्भपाणिर्विशेषतः ॥ इति । (१) उपनीय सर्वमेतच्छनकैः सुसमाहितः । परिवेषयेत्प्रयतोऽन्नगुणांस्तु प्रचोदयन् ॥ इति ॥ एतद् =भक्ष्यभोज्यादि । गुणान-माधुर्यादीन् । पायसादिदाने मन्त्रविशेषा मानवमैत्रायणीयसूत्रे । “पयः पृथिव्या” मिति पायसं दद्यात् । मधुव्वाता ऋतायत" इति मधु "आदी" इति घृतं दद्यात् । कठसूत्रे । एषा वोर्खामासु पक्कमिति घृतं वासिव्येति । मन्त्रान्तराणि । f ( १ ) उपनीय तु तत्सर्वं शनकैः सुसमाहितः । परिवेषयेत प्रयतो गुणान् सर्वान् प्रचोदयन् ॥ इति मुद्रितमनुस्मृतौ पाठः ।