पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

२३८ वीरमित्रोदयस्य श्राद्धकाशे- अथ पात्रालम्भजपाष्ठनिवेशनानि । कास्यायनः । हुतशेषं दत्वा पात्रमालभ्य जपति "पृथिवी ते पात्र धौरपिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहेति" वैष्णव्यर्ध्या यजु. षा वाङ्गुष्ठमन्नेवगाह्य अपहता इति तिलान्प्रकीर्योष्णं स्विष्टमनं दद्या- दिति । इदं विष्णुरित्यृग्=वैष्णवी । विष्णो हव्यं रक्षेति यजुः। अन्ने=पिज्य पात्रनिहितेऽग्नौकरणशेषे दयात् = परिवेषयेत् । निगमे तु अङ्गुष्ठनिवेशनोत्तरं परिवेषणं ततः पात्रालम्भो जपमन्त्रे पाठान्तरं चोकम् । शेषमन्नं दस्तेपु पिण्डवत्प्रदायाङ्गुष्ठमनेऽवगा ह्य सोष्णमनं बहु च दद्यादमिमृश्यपात्र जपति पृथिवी ते पात्र द्यौरपि- धानं ब्राह्मणानां त्वा प्राणापानयोर्मध्येऽमृतं जुहोमि स्वाहेति । अत्रा- दुष्ठनिवेशनं तूष्णीम् । मैत्रायणीयसूत्रे तु पात्रालम्मे मन्त्रान्तरमुकं । अवशिष्टेऽने ब्राह्मणाङ्गुष्ठमुपयस्य द्यौपात्रं स्वधा पिधानं ब्राह्म- णस्य मुखे अमृते अमृतं जुहोमि स्वघेति । अवशिष्टेऽन्ने मौकरण होमावशिष्टे पितृपात्रदत्ते । बौधायनसुत्रे तु पित्रादिस्थानभेदेनाङ्गुष्ठनिवेशने मन्त्रविशेषः । अ थेतरद्ब्राह्मणेभ्यो निवेद्य ब्राह्मणस्याङ्गुष्ठेनानसेनानुदिशति । पृथिवी समतस्य तेग्निरुपद्रष्टा ऋचस्ते महिमादत्तस्याप्रमादाय पृथिवी पात्रं औौरपिधानं ब्राह्मणस्य मुखे अमृतं जुहोमि ब्राह्मणाना त्या विद्याव ता प्राणापानयोर्जुहोमि अक्षितमसि मा पितॄणा क्षेष्वा अमुत्रामु ष्मिन्लोक इति । द्वितीयमनुदिशति अन्तरिक्षसमं तस्य ते वायुरूप श्रोता यजूंषि ते महिमाद चस्येत्यादि पूर्ववत् । पितृणामिति शेषः । इतरत् =हुतावशिष्टम् । निवेद्य=पित्र्यविप्रपात्रेषु निक्षिप्य | अनुदिशति= स्प. शयति । प्रचेतसापि परिवेषणोत्तरं पात्रालम्भाधुकं सर्वे च प्रकृतं दत्वा पात्रमालभ्य सञ्जपेदिति । प्रकृतं श्राद्धार्थतया सम्पादितम् | दत्वा =परिवेभ्य | सजपेत्=पृथिवी. तेपात्रमित्यादीति शेषः ।