पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- परिवर्त्य न चाङ्गुष्ठं द्विजस्यान्ने निवेशयेत् | राक्षसं तद्भवेद्दवं पितॄणां नोपतिष्ठते ॥ उत्तानेन तु हस्तेन द्विजाङ्गुष्ठनिषेशनम् । यः करोति द्विजो मोहात्तद्व रक्षांसि गच्छति ॥ इति बौधायनेनोत्तानहस्ते दोषोतेः । परिवर्त्य = उत्तानीकृत्य । इति पात्रालम्भजपाड्डष्ठनिवेशना|ने । अथान्नसङ्कल्पः । २४० तत्र प्रभासखण्डे । पितृपात्रेषु दत्वान्नं कृत्स्नं सङ्कल्पमाचरेत् । 9 पितृग्रहणं दैवस्याप्युपलक्षणम् । अत्र कृत्स्न मितिग्रहणादन्न सङ्कल्पोत्तरं उच्छिष्टकाले परिवेषणम् । युतं चैतत् दाने सम्प्रदानविशेषणस्य शुचित्वस्यापेक्षितत्वादिति केचित् । तन्न । भोजनपदार्थस्य लौकिक प्रसिध्या तथैवावगतेः । परिवेक्ष्यमाण स्यापि च सम्प्रदानशुचिताकाल एव त्यागोपपत्तेश्च । अतएव परिविष्टं परिवेष्यमाणं चेति सङ्कल्पवाक्यं प्रयुञ्जते शिष्टाः | यद्यद्रोचत विप्रेभ्यस्त सद्दद्याद मत्सरीतिय मोक्तेश्योकिछष्ट कालेऽपि तदुक्तेश्च । सङ्कल्पप्रकारमाह - विष्णुः । नमो विश्वेभ्यो देवेभ्य इत्यन्नमादौ प्राप्नुस्वर्योनिवेदयेत् । पि ज्ये पितामहाय प्रपितामहाय नामगोत्राभ्यामुदङ्मुखेषु । नमो विश्वेभ्य इति च सतिलेनोदकेन च । प्राङमुखेषु च यद्दत्तं तदन्नमुपमन्त्रयेत् || उदङ्मुखेषु यद्दत्त नामगोत्रप्रकर्त्तिनैः । मन्त्रयेत्प्रयतः प्राशः स्वधान्तैः सुसमाहितः ॥ एवं च यदक्षिणा | हस्तेनामुक्त मन्त्राथमिदमन्नमुदीरयेत् । स्वाहेति च ततः कुर्यारस्वसत्ताविनिवर्त्तनम् १ ॥ इति स्वाद्दान्तत्वमुक्कं तद्वैश्वदेविकविषयम् । इदं व वैवर्णिक विषयं स्त्रीशूद्रयोस्तु नम इति प्रयोग इति शूलपाणिः । पात्रख्यादानं च सध्येन । दक्षिणस्य त्यागे व्यापतत्वात् ।