पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

सावित्रीजपादिप्रकारः । ब्रह्मपुराणे । एतद्वो अन्नमित्युक्त्वा विश्वान् देवांश्च संयजेत् । एतोऽन्नमित्येतदिमिदमन्नमित्यनेन सह विकल्पते तुल्यार्थ- स्वात् । अत्र एतद्व इति निर्देशाचतुर्थीविभक्त्या देवतानिर्देशोऽत्र विवक्षितः । अत एव कठसूत्रे पृथिवी ते पात्रमिति सङ्कल्पं कृत्वाऽमुष्मै स्वधा नमोऽमुष्मै स्वधा नम इति यथालिङ्गमनुमन्त्र्य भोजयेव इस्युतम् । इत्यन्नसङ्कल्पः । अथ सावित्रीजपादि । तत्र पारस्करः । सङ्कल्प्य पितृदेवेभ्यः सावित्रीमधुमज्जपः | श्राद्ध निवेद्यापोशानं जुषध्वं प्रैषभोजनम् ॥ सावित्री सवितृदेवत्या गायत्री; सा च प्रणवव्याहृतिपुर्विका । ॐ भूर्भुवः स्वस्तत्सवितुरिति त्रिरुक्त्वेति मानवमैत्रायणीयोक्तेः। त्रिरि ति वैकल्पिकम् । "अपोशानं प्रदायाथ जपेद्या हृतिपूर्वी गायत्रीं त्रिः सकद्वेति कास्ययनोफेः | मधुज्जपः = मधुवातस्यक्त्रयजपः॥ "मधुब्धाता इति तृचं मध्वित्येतत्त्रिकं तथे" ति प्रचेतःस्मृतेः । अत्र मधुमज्जपो मधु. दानाङ्गं “मधुमन्त्रं ततो जप्त्वा अन्ते दद्याच वै मधु" इति भविष्यो केरितिगौडा रायमुकुटादयः पितृदयिता च । अन्ये तु भविष्यवचनं कालसम्बन्धार्थमित्याहुः । आजूनिवेदनप्रकारमाह-- तु यमः - ( १ ) अनहीनं क्रियाहीनं मन्त्रहीनं च यद्भवेत् । सर्वमच्छिद्रमित्युक्त्वा ततो जलमपाशयेत् ॥ इति । अच्छिद्रमित्यस्यानन्तरं जायतामिति वाक्यशेषः । अपोशान = तदर्थ जलम् । दद्यादिति शेषः । अत्र पारस्करवचने सावित्रीजपाद्यनन्तरमपोशानदानमुक्तम् । उदाहृतकात्यायनेन तु अपोशानदानोत्तरं सावित्रीजपाद्युक्तं तेन तयोर्विकल्पः, सच यथाशाखं व्यवस्थितो द्रष्टव्यः । (१) मन्त्रहीनं क्रियाहीन भक्तिहीन द्विजोत्तमाः । श्राद्धं सम्पूर्णतां यातु प्रसादाद्भवतां मम ॥ इति श्रद्धकाशिकार्यां पाठः । बी०मि ३१