पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- अपोशानदानात्पूर्व तिलादिविकरणमुक्तं - ब्रह्मपुराणे । तिलयुक्तं च पानीयं सकुशं तेषु चाग्रतः । विकिरोत्पितृभ्यः स्वेभ्यो जपंश्चापहता इति ॥ तेभ्यो दद्यादपोशानं भवन्तः प्राशयन्त्विति । इदं पित्र्ये । दैवे तु यवोसीतिमन्त्रेण यवविकरणमिति मिश्राः । अ- पहतेत्यनेनैव यवविकरणमिति तु पितृदयिता । अत्र ब्राह्मणैर्भूमौ वलिदानं न कार्यम् । २४२ दत्ते वाप्यथवाऽदत्ते भूमौ यो निक्षिपेद्वलिम् । भोजनाटिकाञ्चदन्नामं धर्मराजाय वै वलिम् ॥ दत्वाथ चित्रगुप्ताय विप्रश्चौर्यमवाप्नुयात् । इत्यत्रिणा बलिदाने दोषोतेः । अत्र भूमावित्युक्तेः प्राणाहुतयो भवन्त्येव । जुषध्वं प्रैषभोजनम् = जुषध्वमिति प्रेषेण भोजनमित्यर्थः । तत्प्रकारमाह । मार्कण्डेयः- -- यथा सुखं जुषध्वं भोरिति वाच्यमनिष्ठुरम् । इति । अइनत्सु रक्षोघ्नादिजपो जप्यप्रकरणे द्रष्टव्यः । अथ विकिरदानादि । कात्यायनः । तृप्तान ज्ञात्वानं प्रकीर्य सकृत्सकृदपो दत्वा पूर्वबद्द्वायत्री जप्त्वा मधुमतीमधुमध्विति च, तृप्ता स्थेति पृच्छति तृप्ताः स्मेत्यनुज्ञातः शेषमन्त्रमनुशाध्येति । एतयाख्यास्यते । याज्ञवल्क्यः | आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा । अन्नमादाय तृप्ताः स्थ शेषं चैवानुमान्य च || तदनं विकिरेद् भूमौ दद्याच्चापः सकृत्सकृत् ॥ इति । ब्रह्मपुराणे । दत्वामृतापिधाने च विप्रेभ्यश्च सकृत्सकृत् । किञ्चित् सम्पन्न मे तन्मे भो विप्रा इति तान्वदेत् ॥ ते च प्राहुः सुसम्पनं स च तान्पुनराह च | अन्नैभवन्तस्तृप्ता स्थ तृप्ताः स्मेति वदन्ति ते ॥ स तानाह पुनः शेषं क देयं चानमित्यपि ।