पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

विकिरदानप्रकार: । इष्टेभ्यो दीयतां चैव तदिदं प्रवदन्ति ते ॥ अथ तृप्तांस्तु वान् शात्वा भूमावेवान्नमुत्सृजेत् ॥ इति । एवं च पदार्थक्रमो यथाशास्वं व्यवस्थितो द्रष्टव्यः । विकिरेतिकर्त्तव्यतामाह - मनुः । भुक्तवत्सु ततस्तेषां भोजनोपान्तिके नृप । सार्ववर्णिकमन्नाद्यं सन्नीयाप्लाव्य वारिणा ॥ समुत्सृजेद् भुक्तवतामग्रतो विकिरन् भुवीति । [अ० ३ श्लो० २४४] सार्ववार्णकं—सर्वप्रकारम् | आष्लाव्य=प्रोक्ष्य | अत्र विशेषो- विष्णुधर्मोत्तरे । अनं सतृणमभ्युक्ष्य मामेक्ष्येष्वेति मन्त्रतः । अत्र देशान्तरमाह - धूम्रः । कपित्थस्य प्रमाणेन पिण्डं दद्यात्समाहितः । तत्समं विकिरं दद्यात्पिण्डान्ते तु षडङ्गुले ॥ भूप्रोक्षणं च- वायवाये । प्रोक्ष्य भूमिमथोद्धुत्येति । ब्राझे । उच्छिष्टे सतिलान्दर्भान्दक्षिणाग्राशिधापयेत् । उच्छिष्टे तत्समीपे, तिलदक्षिणाग्रत्वे पित्र्ये । दैवविकिरे मन्त्र उक्तो गोभिलेन । असोमपाश्च ये देवा यज्ञभागविवर्जिताः । तेषामनं प्रदास्यामि विकिरं वैश्वदेविकम् ॥ पिश्ये कठसूत्रे । अग्निदग्धाच ये जीवा इत्यन्नं विफिरेद् भुवि । २४३ कास्यायनः । येऽनझिदग्धा ये जीवा ये च जाताः कुले मम । भूमौ दन्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ॥ विकिरप्रक्षेपानन्तरकर्त्तव्यमुक्तं- ब्रह्मपुराणे | ततः प्रक्षाल्य हस्तौ च त्रिराचम्य हरिं स्मरेत् ।