पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

२४४ वीरमित्रोदयस्य श्राद्धप्रकाशे- विकिरप्रतिपति चाह-- गौतमः । विकिरमुच्छिष्टैः प्रतिपादयेत् । सहार्थे तृतीया । भार्गवस्तु प्रतिपत्यन्तरमाह-- पिण्डवत्प्रतिपत्तिः स्याद्विकरस्येति तौल्वालः । यो विकिरदानं तदा गौतमोका प्रतिपत्तिः, यदा तु पिण्डसन्निधौ तदा पिण्डवदिति व्यवस्थितं द्रष्टव्यम् । अथ पिण्डदानकालः । तत्र ब्राह्मणभोजनात्पूर्व ब्राह्मणेष्वदत्सु वा ब्राह्मणभोजनादुत. रकालं वा । यदापि पूर्व तदापि ब्राह्मणाचनानन्तरम्, अग्नी करणानन्तरं वा, यदा तु उत्तरं तदापि ब्राह्मणेष्वनाचान्तेषु आचा· तेषु वा । यदापि अनाचान्तेषु तदापि विकिरं प्रक्षिप्य सकृद् गृही तगण्डूषेषु ब्राह्मणेषु गायश्यादि जपं कृत्वा तृप्तिप्रश्नपूर्वकं शेषाभ्यनु ज्ञानन्तरं कर्त्तव्यम् । अथवाऽनाचान्तेषु विकिरदानम् । यदा तु आ. चान्तेषु तदापि आचमनोत्तरकालम् । अक्षय्यवाचनोत्तरकालं वा इति पक्षाः । अत्र क्रमेण मूलवचनानि । साङ्खयायनगृह्य । भुक्तवत्सु पिण्डान् दद्यात्पुरस्तादेके । अदत्सु ब्राह्मणेष्वित्यनुवृत्तौ- विष्णुः । उच्छिष्टसन्निधौ दक्षिणाग्रेषु पृथिवीदर्विरक्षितेत्येकं पिण्डं पिये निदध्यादित्यादि । शङ्कः । उच्छिष्टनिधी कार्य पिण्डनिर्वापणं बुधैः । आदौ वापि ततः कुर्यादग्निकार्य यथाविधि । मनुः । [ अ० ३ श्लो० २१४ ] अपसव्यमग्नौ कृत्वा सर्वमावृत्य विक्रमम् । अपलम्येन हस्तेन निर्वपेदुदकं शुचिः ॥ त्रस्तु तस्माद्धविशेषात्पिण्डान्कृत्वा समाहितः । [ अ० ३ श्लो० २१५ ]