पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

पिण्डदानकालविचारः । हविःशेषात् = अनौकरणशेषात् । २४५ कात्यायनः | तृप्ताहात्वानं प्रकीर्य सत्सकदपो दत्वा पूर्ववद्वायत्रीं जपि- त्वा मधुमतीः, "मधुमकि ”ति च तृप्ताः स्थेति पृच्छति, तृप्ताः स्म इत्यनुज्ञातः । तथा च-- मनुः-- समुत्सृजेद् भुक्तवतामप्रतो विकिरन् भुवि । इति । पूर्ववत् इति = प्रणवव्याहृतित्रित्वस कृत्वादिप्राप्त्यर्थम् । मधुमतीः= मधुवाता इति तिस्र ऋचः । मधुमध्विति चेति प्रावर्गिकमन्त्रस्य प्रतीकेन मधुमधुमधु इति त्रिरुच्चार्य । तृप्ता स्थेति बहुवचनोपदेशात्सर्वेषाम् । यत्तु पङ्किमुर्द्धन्यं पृच्छतीति वचनं तदबहुवचनागतेषु अग्नौ करिष्ये इत्येवमादिषु द्रष्टव्यम् । केचितु तृप्तिप्रश्नस्य दृष्टार्थत्वात्सर्वार्थत्व न बहुवचनोपदेशा दित्याहुः | तन | अदृष्टार्थत्वात्प्रश्वस्य सकृत्सकृदपां दानेन उन्मुक्त- पात्रत्वेन तृप्तिप्रश्नस्य प्रयोजनाभावात् । अतो बहुवचनबलादेव स वैषां प्रश्न इति युक्तम् । तृप्ताः स्म इत्यनुशापि सर्वेर्दातव्या प्रश्नस्य सर्वार्थत्वादिति कर्कः । शेषान्नानुशाप्रकारस्तु शेषमन्नं किं क्रियतां १ इवैः सह भुज्यतामित्येवं कार्य इति मदनरत्नः | सर्वशब्दः प्रकृता पेक्षः तेन प्रकृतश्राद्धोपयोगिसाधितद्रव्यात्किञ्चिदादा येत्यर्थः । उच्छिष्ट समीपे शुचिदेश इति यावत्, उच्छिष्टस्य प्रतिषिद्धत्वात् । दर्भेषु सकदाच्छिन्नेषु पिण्ड पितृयज्ञवदुपचार इत्यनेन पितृपिण्डयज्ञधर्माविदेशात् । अवनेज्य =अवनेजनं कृत्वेत्य यद्यपि चावनेजनं पिण्डपितृयज्ञातिदेशादेव प्राप्तं तथापि तस्य प्रकृतौ रेखायां विहितत्वादत्र दर्भेषु प्राप्त्यर्थं पुनर्वचनमिति वाचस्पतिमिश्राः । कवितु "पित्रादिक्रमतो दद्यादेखायामवनेजन" मिति भविष्यव चनात् रेखा यामेवावनेजनं छन्दोगभिन्नानामाहुः । "पिण्डासनं समास्तीर्ण छन्दोगा अवनेजनम्” इति तत्परिशिष्टशत् | त्रींस्त्रीनिति वीप्सा मातामहविषया । याज्ञवल्क्यः । अशमादाय तृप्ता स्थ शेषं चैवानुमान्य च । तदनं विकिरेद् भूमौ दद्यादापः सकृच्छकृत् ॥ ( अ० १ श्राद्धप्र० श्लो० २४१ )