पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

२४६ वीरमित्रोदयस्य श्राद्धप्रकाशे- सर्वमन्नमुपादाय सतिलं दक्षिणामुखः । उच्छिष्टसन्निधौ पिण्डान्दद्याद्वै पितृयज्ञवत् ॥ मातामहानामध्येवं दद्यादाचमनं ततः । ( अ० १ श्राद्धप्र० श्लो० २४३-२४४ ) अत्र = सर्वमिति विज्ञानेश्वरः । शङ्खलिखितौ । तृप्तान ज्ञात्वा स्वदितमिति पृष्ट्वा शेषमन्त्रमनुशाप्य प्रकृतादन्ना. द्विकिरं कुर्यात् स्वधां वाचयित्वा विष्टरांस्त्रींन्निध्यात्त्रीण्येवोदपात्राणि सतिलानि सपवित्राणि मृन्मयाइममयौदुम्बराणि वा । धूपगन्धमास्यादर्शप्रदीपाञ्जनादीनि चोपहरेत् । सर्वान्निप्रकारमादाय पिण्डा- न्निदध्यात् । स्वधावाचनप्रकारस्तु वक्ष्यते । विष्टरनिधानं पिण्ड धारत्वेन । विष्टरः पञ्चविंशतिदर्भपिञ्जूलात्मकः॥ उदपात्रत्रयं अवनेज- नार्थ | हेमाद्रौ बृहस्पतिस्तु अनाचान्तेषु “तत्समीपे प्रकुर्याच पिण्ड- निर्वपणं तत" इत्यादिना पिण्डदानमुक्त्वोपसृष्टोदकानां तु इत्यादिना विकिरदानमाह | ' कात्यायनः । आचान्तेष्वित्येके । आचान्तेष्चित्यत्राचमनोत्तरकालता गम्यते न चात्र सामान्योक्तेर्वक्ष्यमाणयमवचनानुसारादक्षय्यदानोत्तरकाल- स्वेनोपसंहारः किं न स्यात् । कात्यायनसूत्रे अक्षय्योदकदानादेरेत- स्त्रोत्तरकालविहितत्वात् । एकग्रहणादस्य पक्षस्य परमतत्वमिति हेमाहिः । उभयशास्त्रत्वाद्विकल्प इति कर्कः । यमः । स्वधेतिवत्प्रवक्तव्यं प्रीयन्तां पितरस्तथा । अक्षय्यमन्नदानं तु वाच्यं प्रीतोर्द्वजातिभिः ॥ ततो निर्वपण कुर्यात्पिण्डानां तदनन्तरम् | हारीतस्तु । बाजे बाजे इत्यनुव्रज्येस्यनुवजनमुक्त्वा शेषस्य पिण्डान्पितृयज्ञ- बन्निदध्यादिति । एते च कालास्तत्तच्छाखाभेदेन व्यवस्थिताः । भोजनास्पृर्वोत्तरकालयोव्र्व्यवस्थानन्तरमाइ- लौगाक्षिः । अप्रशस्तेषु यागेषु पूर्व पिण्डावनेजनम् ।