पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

पिण्डदानदेशविचारः | भोजनस्य प्रशस्ते तु पश्चादेवोपकल्पयेत् || अप्रशस्तेषु=सपिण्डीकरणात्पूर्वभाविषु । पिण्डावने जनम् = अबाचीन पाणिना पिण्डनिर्वपणमिति स्मृतिचन्द्रिकाकारः । हेमाद्रिस्तु पिण्ड निर्धपणारम्भपदार्थेन अवनेजनाख्येन पिण्डदानं लक्ष्यते इत्याह । भोजनस्य पूर्व भोजनात्पूर्वमित्यर्थ, इयं च ब्यव- स्था यस्यां शाखायां पार्वणादिश्राद्धप्रकरणे पूर्वकालता नोका तद्वि बयेति हेमाद्रिः । २४७ स्मृतिचन्द्रिका कारस्तु पार्वणादिश्राद्धे पश्चादेवेत्याह । येषां तु गृह्यादौ पिण्डदानकालो नोक्तः तेषां सौकर्यांदाचान्तेन्वित्येव पक्षो ग्राह्य इति बहवः । इति पिण्डदानकाल । अथ पिण्डदानदेशा | तत्र साझिकेन तावदग्निसद्भावे अग्निसन्निधौ पिण्डदानं कार्यम् । "पिण्डपितृयज्ञवदुपचारः पित्र्ये" इत्यनेन श्राद्धे पिण्डपितृयज्ञधर्मातिदेशात् । पिण्डपितृयशवदक्षिणेनोल्लिखति अपरेण वेत्यनेनाभि सन्निधानस्य विहितत्वात् । अत एव- देवलः । त्वमा पिण्डानां सन्निधौ तदनन्तरम् । पक्कानेन वलिमेभ्यः पिण्डेभ्यो दापयेद्विजः ॥ पिण्डानां सन्निधौ एवम् = उक्तेन प्रकारेण | आनं हुत्वा अनन्तरं एभ्यः पक्कान्नेन वलिं= नैवेद्यं दद्यादित्यर्थः । एवञ्च पिण्डसन्निधान. मग्निहोमस्य वदता पिण्डानामनिसान्निध्यमुक्तं भवति । तस्मादभि. सद्भावे तत्सन्निधावेव साग्निकेन पिण्डदानं कार्य अग्न्यभावे तु कास्यायनवचनादुच्छ्रष्टसन्निधाविति हेमाद्रिः । अपरार्कस्तु । अतिदेशप्राप्तस्यापि अग्निसन्निधानस्यौपदेशिकेन उच्छिष्टसन्नि- धानेन बाघोपपत्तेः सर्वैरपि उच्छिष्टसन्निधावेव कार्यमित्याह | न चाधिकारिभेदेन अबाधोपपत्तौ बाधो न युक्तः । शरैरपि कुशानामबाधापत्तेः, तेषामपि कुशाभावे प्रतिनिधित्वेन विधानोपपत्तेः । यद- पि च देवलवचः, तदपि अनौकरणहोमात् पूर्वे पिण्डदान करणे उच्छिष्ट सन्निधानस्याभावादग्निसन्निधानज्ञापकमिति न कश्चिद्विरोध | इच्छिष्ट्रसन्निधिस्तत्समीपे सहेशो प्रायः । तथा च