पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- मरक्षिमात्रमुत्सृज्य पिण्डांस्तत्र प्रदापयेत् । यत्रोपस्पृशतां वापि प्राप्नुवन्ति न बिन्दवः ॥ अरस्निमात्रमिति नारनिनियमार्थ, किन्तु समीपे शुचिदेशोपलक्षणा थे यत्रोपस्पृशतामिति वाकवशेषात्, अत एवात्रिणाऽरक्षित्रयमुकम्, 'पितॄणामासनस्थानादग्रतास्त्र वरतिषु । उच्छिष्ट सन्निधान तोकि टासमसन्निधानम् | यत् त्रिषु अरक्षिषु स्थानं तदेवोच्छिष्टसन्निधान म तु उच्छिष्टासनसन्निधानमेव पिण्डस्थानमित्यर्थः । अप्रतः = पुरस्तात्, न तु पश्चात्पाश्र्वयोर्षा, अत एव - देवलः । २४८ व्यासः । पुरस्तादुपविश्यैषां पिण्डावापं निवेदवेत् । ततस्तैरभ्यनुज्ञातो दक्षिणां दिशमेत्य सः ॥ उपलिते शुचौ देशे स्थानं कुर्वीत सैकतम् । मण्डलं चतुरस्र वा दक्षिणावनतं महत् ॥ पिण्डावापः = पिण्डदानम् | तस्य निवेदनं च पिण्डदानमहं करिष्य इति प्रकारेण | अभ्यनुज्ञानमपि चैवं कुरुम्वेत्येवं कार्यम् । दक्षिणादिक श्राद्धकत्रेपेक्षयेति कल्पतरुः । श्राद्धदेशोत्तरस्थदक्षिणाग्म्य पेक्षवेति वाचस्पतिः | सैकतम् = वालुकानिर्मितम् । यत्तु - ब्रह्मपुराणे | ततो दक्षिणपूर्वस्यां कार्या वेदी यथाविधि | इति दिगन्तरावधानं तच्छा खान्तरविषयापति स्मार्त्तभट्टाचार्यः । पिण्डदाने देशविशेषमाह- देवलः। छायायां हस्तिनश्चैव वस्तदौहित्रसन्निधौ । बस्तः = छागः । न चेयं हस्तिच्छाया कालविशेषरूपा, देशप्रस्तावे पाठात् । इदं च देशविधानं फलातिशयार्थे न पुनर्नियमार्थ हस्ति छयायाः- भोजयेत्तु कुलेऽस्माकं छामायां कुञ्जरस्य च । आकल्पकालिकी तृप्तिस्तेनास्माकं भवेदिति ॥ वायुपुराणादौ प्रशस्ततरत्वामिधानात् । अत एव देवलेन भोज नात्पूर्वमेव पिण्डदानस्य विहितत्वान्न तत्रैषायं दशः। किन्तु स्मृत्यन्तरे