पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

पिण्डदानैतिकर्तव्यता | २४९ विहितभोजनोत्तरकालीनपिण्डदानेऽपि स भवत्येव, प्रशस्तृतरत्वबो- धकवाक्ये पिण्डदानसामान्यस्यैव प्रकरणादुपस्थितत्वात भोजनपूर्वकालीनस्य पिण्डदानस्यानुपस्थितत्वात् । तस्मात्प्राशस्त्याविश यार्थमवेद देशविधानमिति हेमाद्रिः । इति पिण्डदानदेशाः । अथ पिण्डदानेतिकसभ्यता | तत्र पिण्डदानानुशाग्रहण विशेषमाह - देवलः | अथ संगृह्य कलशं सदर्भ पूर्णमम्भसा | पुरस्तादुपविश्यैषां पिण्डावापं निवेदयेत् || सदर्भम्=सपवित्रम् | अम्भसा पूर्ण कलश सगृत्य गृहीत्वा । ब्राह्मणानां पुरस्तादुपविश्य पिण्डदाननिवेदन कुर्यादित्यर्थः । निवेदनप्रकारस्तु प्राग्दर्शितः । इदं च कलशग्रहणं येषां तज्जलेन "ततः पानीयकुम्भेन तर्पयेत्प्रयतः पितॄन्” इत्यादिना किञ्चित्तर्पणादि कर्म विहित तेषामेव | अन्येषां तु तद्ब्रहणं विनापि अनुशाग्रहणं भवत्येव । अत एव कलश ग्रहण मनुक्रवैवानुशाग्रहणमाह- शालङ्कायनः । पिण्डावापमनुशाप्य यतवाक्कायमानसः । सतिलेन तसोऽन्नेन पिण्डान् सर्वेण निर्वपेत् । इति पिण्डदाने आधारावशेषमाह -- देवलः । उपलिप्ते शुचौ देशे स्थानं कुर्वीत सकतम् । मण्डले चतुरस्रं वा दक्षिणावनतं महत् || स्थानं =पिण्डाधारभूतं स्थलम् | मण्डल=वृत्तम् | चतुरस्र = चतुष्कोणम् । वेदिपरिमाणं च-- ब्राझे - हस्तमात्रा तथा भूमश्चतुरङ्गुलमुच्छ्रिता । पिण्डनिर्धपणार्थाय रमणीया विशेषतः ॥ मातामहपार्षणे भिन्ना वेदिरिति श्राद्धकल्पः । इदं च वेदिकरणं छन्दोगयजुर्वेदिष्यतिरिक्तविषयम् | तेषां वेद्यश्रवणादुच्छिष्ट समीप एव पिण्डदानश्रवणाश्चेति केचित् । तन्न | उच्छिष्टसमीपेsपि वेदेः कर्तु बी० मि ३२