पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- २५० शक्यत्वात् । अत एव - भविष्ये । मण्डलं चतुरस्रं वा निर्मायोच्छिष्टसन्निधौ । ॐ निहन्मीतिमन्त्रेण ततोऽप्यपहता इति ॥ पठन रेखां दक्षिणामां कुशमूलेन वै लिखेत् । अपरार्कस कलमैथिल स्वरसोप्येवं | हेमाद्रिस्तु वेदिकरणं केषाि देव शाखिनां "सुपलिप्ते महीपृष्ठे गोशकृन्मूत्रवारिणे" ति मत्स्यपुरा. णे महीपृष्ठस्याऽधारत्वविधानादित्याह | पिण्डसंस्कारमाह- देवलः । एकदर्भेण तन्मध्यमुल्लिखेत्रिश्च तं त्यजेत् । एकदर्भः = एकदर्भशिस्त्रेति हेमादिः । एकदर्भेणेति सामगातिरिक- विषयम् । - सामगानां तु - पिञ्जुल्याद्यभिसंगृह्य दक्षिणेनेतरात्करात् । अन्वारस्य च सम्येन कुर्यादुल्लेखनादिकम् ॥ इति छन्दोगपरिशिष्टोक्तपिज्जुल्या रेखाकरणं बोध्यम् । पिज्जुली = पवित्रम् | ब्रह्माण्डपुराणे तु त्रिभिः कुशैः स्फेनापि वा लेखाकरणमुक्तम् । वज्रेण वा कुशैर्वापि उल्लिखेत् तन्महीं द्विजः। वज्रो वै स्फ्य इति श्रुतेर्व स्फ्यः । इदं च देशप्राप्तस्यापि वज्रस्य कुशैर्बाध प्रतिप्रसवार्थे पुनः श्रवणं, एवं चोभयोर्विकल्पः । स्मृ त्यर्थसारेऽप्येचं | हेमाद्रिस्तु स्फ्याभावे कुशविधिमाह-स्पयादिग्रहणं च वामेन कार्ये, उल्लेखनन्तु वामान्वारब्धेन दक्षिणेन कार्यम् अत एव छन्दोगपरिशिष्टे । परिग्रहणमात्रं हि सव्येन स्यादिति ध्रुवम् | पिञ्जुल्याद्यमिसंगृह्य दक्षिणेनेतरात्करात् ॥ अन्वारभ्य च सव्येन कुर्यादुल्लेखनादिकम् । इति ॥ कल्पतरौ तु सध्येन गृहीत्वा उमाभ्यां हस्ताभ्यामुल्लिखेदित्युतम् ।' अत एव पारस्करः । कराभ्यामुलिखेत् स्फ्येन कुशैर्वापि महीं द्विजः। तच्च यथा रेखायां क्रियमाणायां दक्षिणमुष्टेरुपरि काममुष्टिर्भ.