पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

पिण्डदानेतिकर्तव्यता वति तथा कुर्बात् । अत एच- वायुपुराणे | २५१. सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजः । तच्चोल्लेखनं आग्नेय्याभिमुख्थेन पराङ्मुखतया कर्त्तव्यम् । तथा च पिण्डपितृयज्ञे । आपस्तम्बः । दक्षिणाप्राची पराच वेदिमुद्धृत्येति । दक्षिणाप्राचीम् = आग्नेयम् । पराचीम्=पराङ्मुखीम् । सर्वे च आग्ने याभिमुखोऽवनेजनादिक कुर्यादिति हेमाद्रिः । अन्ये तु दक्षिणादिक् पितृणामिति श्रुतेर्दक्षिणामुखत्वेनैवेति । रेखाकरणं च त्रिवारम् । एकदर्भेण तन्मध्यमुल्लिखोस्त्रश्च तं त्यजेत् । इति देवलवचनात् । इदं च कार्तायभिनानां, तेषां सकृदेव "अथ दक्षिणेनाम्वाहार्यपचनं सकृदुल्लिखति" इति श्रुतेः । अत एव हला. युधेम सकृदेवेत्युक्तम हेमाद्रिस्तु त्रिग्रहणं पिण्डत्रयाभिप्रायेण वर्गत्रया- भिप्रायेण वा द्रष्टव्यम् । एवं च यत्र वर्गद्वयं तत्र द्वे रेखे इत्याह । रे. काकरणे मन्त्र उक्तो-- ब्रह्मपुराणे। ॐ निहम्नि सर्वे बदमेध्यषद्भवेत् हताश्च सर्वेऽसुरदामवा मया । रक्षांसि यक्षाच पिशाचसङ्घा हता मया यातुधानाश्च सर्वे ॥ अनेन मन्त्रेण सुसंयतात्मा वेदीं च सर्वो सकृदुल्लिखेच्च । पिण्डपितृयज्ञे कात्यायनेन तु मन्त्रान्तरमुकं "तहक्षिणेनोल्लिख स्वपहता इत्यादिना । अनयोश्च समुच्चयः । नच दृष्टार्थानां कथं समुदायः प्रत्युतातिदेशतः प्राप्तस्यापहता इत्यस्य बाध एव स्यादिति वाच्यं । ॐ निहन्मीति मन्त्रेण ततोप्यपहता इति । पठन् रेखां दक्षिणामां कुशमूलेन संल्लिखेत् || इति भविष्यपुराणवचनात् समुच्चयः । रेखाकरणामन्तरमभ्युक्षणमुक्तमाश्वलायनेन "तामभ्युस्य सक्कदाछिन्त्रैरवस्तीयें"त्यादिना । अभ्युक्षणानन्तरमभिमन्त्रण सुकमापस्तम्बेन । “अवसायन्तु पितरो