पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

२५२ वीरमित्रोदयस्य श्राद्धप्रकाशे- मनोयवस इत्यभिमन्त्र्येति । उल्लेखनानन्तरमुल्मुकनिधाने-- कात्यायनः | उल्मुकं परस्तात्करोति “ये रूपाणी” ति । परस्तात् = रेखापरस्तातपुरोभागे । इदं च निरनेरुल्मुकनिधानं न भवति अग्नेः प्रतिनिध्य भावेन लौकिकाङ्गारस्प ग्रहीतुमशक्यत्वादिति यज्ञपतिपशुगतप्रभृ तयः । सति निरनेः श्राद्धाधिकारे निषादस्थपतीष्टिवल्लाकिका. उन्युपादानस्याविरुद्ध त्वमिति भानूपाध्यायादयः । अत्र दर्भास्तरणं कार्यम् । तथा च देवलः । तस्मिस्थाने ततो दर्भानेक मूलाञ्छ्विान् बहून् । दक्षिणाग्रानुदक्पादान् सर्वोस्तांस्तृणुयात्समम् ॥ तस्मिन्=पिण्डस्थाने । दर्भान्=कुशान् । तदभावे काशादि । एश्मू- लान्=सलूँलझबहुशिखान् । शिबान्=सा प्रत्यादिगुणयुक्तान् । ते च समूला: सकृदाच्छिन्ना इत्याह-- कात्यायनः | उपमूलं सकृदाच्छिन्नानि रेखग्यां कृत्षेति । उपमू = समूलमिति हेमाद्रिः । अत्र लुनातीति शेषः । अत्र च दर्भा निति बहुवचन कपिञ्जलवस्त्रित्व परमिति न वाच्यम् । दर्भास्तरणस्य दृष्टार्थत्वात्पिण्डाधारत्वेन बहूनामेव प्राप्तेः, अत एव पृथक् बहूनिति ग्रहणमेव कल्पत इति हेमाद्रि । त्रय एवेति पितृभक्तिः । उदक्षादान्= उदङ्मुखान् । स्तृणुयत=विस्तारयेत् । समं=समाग्रतया समूलतया था। इदं च दर्भास्तरणं यदि रेखा दक्षिणात्रा तदा दक्षिणा क तव्यं यदा तु आग्नेय दिशमाश्रित्य लेखा क्रियते तदा तदभिमुखमेव कुर्यात् । अत एव वायुपुराणे आग्नेयाभिमुखत्वमुक्तं । प्राग्दक्षिणाप्रान्नियतो दद्यात् पिण्डाननन्तरम् । प्राग्दक्षिणा = आग्नेयीति हेमाद्रि । दर्भास्तरणे मन्त्र उक्त आपस्तम्बेन । सदाबहतुर्णामृदुस्योनं पितृभ्यस्त्वा स्तृणाम्यहम् । अस्मिन्सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाञ्चानुगैः सहेति सकृदाहिनेन बहिषा बर्दि स्तृणाति ।