पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

पिण्डदानेतिकर्तव्यता | शङ्खलिखिताभ्यां तु पिण्डभूमौ विष्टरत्रयनिधानमुकं-- विटंराँस्त्रीन्निध्यात् इति । अत्र च संख्यासाभ्यादेकै कपिण्डाधारत्वेनैकैको विष्टरो निधेय इति हेमाद्रिः । विष्टरनिधाने नामगोत्रा द्युञ्च | रणपूर्वश्व मुक्कं यमेन । विष्टरांखीन् वपेत् तत्र नामगोत्रसमन्वितान् । अद्भिरभ्युक्ष्य विधिवत्तिलैरभ्यवकीर्य च ॥ ततो दर्भेषु तं हस्तं निर्मृजेल्लेपभागिनम् । नामगोत्रसमन्वितानिति विष्टरविशेषणमिति । हेमाद्रिः । वस्तुतस्तु निर्मजेल्लेपभागिन मिति उपसंहारात् पिण्डदानाविध्यभावापत्तेः विष्टगंस्त्रीन्निदध्यादित्यध्याहारः वपेत् पिण्डानितिचाध्याहार इति यमवचनं व्याख्येयम् । कल्पतरुर प्येवम् । दर्भास्तरणानन्तरं आवाहनपूर्वकं पितॄणां स्थानकल्पनामाह - देवल: । अथ साञ्जलिरुत्थाय स्थित्वा चावाहयेत् पितॄन् । पितरो मे प्रसदिन्तु प्रयान्तु च पितामहाः ॥ इति सङ्कीर्त्तयंस्तूष्णीं तिष्ठेत् क्षणमनुच्छ्र सन् | आवाहयित्वा दर्भास्तेषां स्थानानि कल्पयेत् ॥ तेषां पितॄणां स्थानानि कल्पयेत् | आस्तृतभूमाविति शेषः । करे दर्भान्गृहीत्वा पित्रे इदं स्थानमित्येवं क्रमेण दर्भाप्रैर्विनिर्दिशेत् । स्थानकल्पनानन्तरं तत्र मार्जनं तिलविकिरणं चाइ स एव । तेष्वासीनेषु पात्रेण प्रयच्छेन्मार्जनोदकम् । प्रक्षालय विकिरेत्तत्र नानावणस्तिलानपि || मार्जनोदकं = अवनेजनोदकमिति कल्पतरु । अत्रावनेजनसाधनं पात्र उक्तम्, आपस्तम्बेन तु अञ्जलिरुक, मार्जयन्तां मम पितरो माजयन्तां मम पितामहाः मार्जयन्तां मम प्रपितामहा इत्येकरखायां श्रीनुदकाञ्जलीनिनयति । आश्वलायनेन तु मन्त्रान्तरमुकं प्राचीनावती रेखां त्रिरुद्केनोपनयेत् शुन्धन्तां पितरः, शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहा इति । [ कात्यायनः । उद्पात्रेणावने जयनित्यपसव्यं सध्यमाद्धरणं सामर्थ्यात् । ]