पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- लेखां सदाच्छिनोपस्तीर्ण अवनेजयति अपसव्यम्=दक्षिणेन हस्तेन जलं ददातीत्यर्थः । अपसव्यं तु दक्षिण मित्यमरः । हेमाद्रिरपि मनुवाक्यं अपसव्येन दक्षिणेनेति व्याख्यातवान् । सव्येनोद्धरणम् वामहस्तेन तस्यान्नस्योद्धरणं कार्य । अत्र हेतुः सामर्थ्यादिति । वाम स्य हि उद्धरणे सामर्थ्य दक्षिणक्यावनेजने व्यापृतत्वात् । हलायुधेन तु सव्येन वोद्धरणसामर्थ्यादिति पाठं लिखित्वा एवं व्याख्यातमपसव्यं वामहस्तेन यथा स्यात्तथा सव्येन दक्षिणेन तत्र हेतुः, उद्धरणसामर्थ्या दिति, सहि कर उद्धरणे समर्थः । तथा च दक्षिणवामयोर्विकल्पः । सच शाखाभेदात् व्यवस्थितः । विशेषान्तरमाह - कात्यायनः । २५४ असाववनेनिश्वेति यजमानस्य पितृप्रभृतित्रीनिति । असौ इत्युपलक्षणं सम्बन्धनामगोत्रादेः । 3 तथा च व्यासः । पिण्डोदकप्रदानं तु नित्यनैमित्तिकष्वपि । [ आलव्य नामगोत्राभ्यां कर्तव्यं सर्वदैव हि ॥] पिण्डदानेषु पिण्डोदकं अवनेजनोदकं नामगोत्रेणालप्य सम्बोध्य कर्त्तव्यमित्यर्थः । यजमानग्रहणं पिण्डपितृयशस्य अध्वर्युकर्त्तृकत्वात् । अधनेजनोदकं सतिलं सपुष्पं च कर्त्तव्यं । तथा च- उशनाः । तिलोन्मिश्रितेनोदकेनासिव्य दर्भास्तीर्णायां भूमौ पिण्डानि वेदयेत् । ब्रह्मपुराणे | सपुष्पं जलमादाय तेषां पृष्ठे पृथक् पृथक् । अप्रदक्षिणं तु निर्णिज्यात् गोत्रनामानुमन्त्रितम् । अत्र कात्यायनमते अमुकगोत्र अस्मत्पितः अमुकशर्म्मशवनेनि. क्ष्वेति प्रयोगवाक्यं द्रष्टव्यम् आश्वलायन मते तु शुन्धन्ता पितर इत्यादि । आपस्तम्बेनापि माजयन्तां मम पितर इत्याधुकम् । अत्राबावनेजनात्प्राकु देवताभ्यः इति त्रिः पठनीयम् । आद्यावसाने श्राद्धस्य त्रिरावृत्या जपेत्सदा | पिण्डनिर्वपणे चैव जपेदेतत्समाहितः | इति ब्रह्मपुराणात् । न च पिण्ड निर्धपणे चेति वाक्यात्पिण्ड सिर्वापारपूर्वमेवयं अपः