पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

२५६ वीरमित्रोदयस्य श्राद्धप्रकाशे- मिधानात् केवलाव सध्याग्निमता पिण्डपितृयज्ञार्थ स्थालीपाकं अप- यित्वा आच्छादनदानात्तं श्रद्धं निर्वत्य स्थालीपाकस्यान्नेनाझोकरणं होमं कृत्वा ब्राह्मणाम्भोजयित्वा श्राद्धशेषेण स्थालीपाकानमेकीकृत्य पिण्डप्रदानं कर्त्तव्यमित्यमावास्याश्राद्धे व्यतिषः फलितो भव तीति कल्पतरुप्रभृतयः । एतच्चानं मध्वाज्यतिलयुक्तं कर्त्तव्यमुक्तं- ब्राह्मे -- मध्वाज्यतिलसंयुक्तं सर्वव्यञ्जनसयुतम् । उष्णमादाय पिण्डन्तु कृत्वा बिल्वफलोपमम् || दद्यात्पितामहादिभ्यो दर्भमूलाद्यथाक्रमम् । पितामहपदं पितृपरामति श्राद्धचन्द्रिका । अत्र च मध्वादिभिः पिण्डीकरणं न तु अन्नकृतस्य पिण्डस्य मध्वादियोगः । अतश्च- मधुसर्पिस्तिलैर्युतान् त्रन्पिण्डान्निर्वपेद्द्बुधः । इति देवळवाक्यमपि एवमेव व्याख्येयम् । मूलभूतश्रुत्यम्वरक हपनागौरवात् । श्राद्ध कल्पे तु मधुसंयुक्ताननिर्मितान् पिण्डान्मध्वा- दियुक्तान्कृत्वा दद्यादित्युतम् । एतच्च मध्वादित्रयदानं न नियमार्थ किन्तु फलातिशयार्थ, स्मृत्यन्तरे द्वयोरेकस्थापि वा श्रवणादिति हेमाद्रिः । मधुदानं च कलियुगातिरिक्तविषयं “श्राद्धं मांसं तथा मधु" इति श्राद्धप्रयोगे कलिवर्ज्येषु वर्जनात् । पिण्डप्रमाणमाह - व्यासः । द्विहायनस्य वत्सस्य विशत्यास्ये यथासुखम् । तथा कुर्यात्प्रमाणं तु पिण्डानां व्यासभाषितम् ॥ द्विहायनो= द्विवर्षवयस्कः | प्रमाणान्तरमुक्तं- - ब्रह्माण्डे । श्रीम्पिण्डानानुपूर्वेण साष्टमुष्टिवर्द्धनात् । साटो मुष्टिर्यावान्तावर्द्धन पुष्टिर्येषां ते इति विग्रहः । इदं च परिमाणं मातामहपिण्डविषयम् । पृथक् मातामहानां च केचिदिच्छन्ति मानवाः । श्रीन्पिण्डानानुपूर्वेण साङ्गुष्ठान्मुष्टिवर्द्धनान् || इति वायुपुराणे तत्पिण्ड एव एतत्परिमाणस्योकत्वादिति पितृभक्तिः ।