पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

पिण्डदानेतिकर्तव्यता । कपित्थबिल्वमात्रान् वा पिण्डान्दद्याद्विधानतः । कुक्कुटाण्डप्रमाणान्चा यदि वामलकैः समान् । बदरेण समान् वापि दद्याच्छ्रद्धा समन्वितः | एषां च शक्तिभेदेन व्यवस्था वेदितव्या | अत्र व्यवस्थान्तरयुक्तानि कानि चिस्परिमाणान्याह- मरीचिः | अझिरा अपि । आर्द्रामलकयुक्तांस्तु पिण्डान्कुर्वीत पार्वणे । एकोद्दिष्टे बिल्वमात्रं पिण्ड मेकं तु निर्वपेत् || नवश्राद्धे स्थूलतमं तस्मादपि तु निर्वपेत् । तस्मादपि स्थूलतरमाशौचे प्रतिवासरम् ॥ अत्र प्रकरणादेव पार्वणसम्बन्ध सिद्धे पार्वणग्रहणं व्यवस्थार्थम् । अत्र चामलकमात्रानेष पार्वण कुर्वीतेति न व्याख्येयम्, किन्तु आमलकमात्राम्पार्वण एवेति । २५७ अतश्च पार्वणेऽव्यामलकाधिकपरिमाणपिण्ड निर्धापः । अत एवाचारोऽप्येवम् । बिल्वमात्रमित्यनेन बिल्वम्यून मामलका- दिपरिमाणमेव निवस्येते नत्वधिकं तथैवाचारात | नवश्राद्धं=आशौच. मध्ये प्रथमतृतीयादिविषमदिनेषु विहितं श्राद्धम् । आशौचमध्ये श्रा. द्धमन्तरेणैवावयपिण्डदानं ? प्रतिदिवसं यत्क्रियते तस्मिन् । पिण्डत्रयस्योत्तरोत्तरं आधिक्यमुक्तं मैत्रायणीयसूत्रे । पितामहस्य नाम्ना स्थवीयांसं मध्यमं, प्रपितामहस्य नाम्ना स्थविष्ठं दक्षिणम् | स्थवीयासं =पितृपिण्डापेक्षया । अत्र सव्यजानुनिपातनमुक्तम्- ब्राझे । मधुसर्पिस्तिलयुतांस्त्रीन्पिण्डान्निर्वपेद् बुधः | जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः । अत्र च श्रुतिक्रमेण पाठक्रमं बाधित्वा पिण्डनिर्वापारपूर्व जानु निपातनं कार्यम् । पिण्डदाने पात्रमाह- मरीचिः । पात्राणां खङ्गपात्रेण पिण्डदानं विधीयते । राजतौ दुम्बराभ्यां वा हस्तेनैवाथ वा पुनः ॥ बी० मि ३३