पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

२५८ वीरमित्रोदयस्य श्राद्धप्रकाशे- औदुम्बरं = ताम्रमयम् । पिण्डदाने पितृतर्थमुक्तं षट्त्रिंशन्मते- निर्वपेत्पितृतीर्थेन स्वधाकारमनुस्मरन् । पिण्डदाने मन्त्रमाह- कात्यायनः । यथावनिर्णिकं पिण्डान्ददानि असावेतत्त इति । ये च त्वाम न्विति चैक इलि | यथावन्निर्णित=यत्र यत्र येन क्रमेण यस्यावनेजनं कृतं तत्र तत्र तेनैव क्रमेण तस्य पिण्डं दद्याव। असाविति गोत्र सम्बन्धनाम्नामभिधानं विवक्षितम् । अत एव पारस्करः । अर्धदाने व सङ्कल्पे पिण्डदाने तथाक्षये । गोत्रसम्बन्धनामानि यथावत्प्रतिपादयेत् || सङ्कस्पे=अन्नत्यागे । अत्र च गोत्रादीनां सम्बोधनान्तानामुश्चारणं कार्यम् । असाविति प्रथमानिर्देशात्, असम्बोधने अवनेनिश्वेश्यस्य वैयधिकरण्यापत्तेश्च । अत एव - बौधायनः । पतले ततासौ ये च त्वामत्रान्विति । तत शब्दस्य सम्बोधनान्तत्वमाह । एतदिति = निर्व समानपिण्डनि देंशः । न च पुंलिङ्गस्य पिण्डशब्दस्य कथं नपुंसकलिङ्गेन निर्देश इति वाध्यम् । पिण्डशब्दस्य कुडन्यस्य पिण्डं पततीत्यादौ महामा ध्ये नपुंसकलिङ्गेनापि प्रयोगदर्शनात् । अत एव पिण्डशब्दस्य पुंल्लि इत्वाद्यजुर्वेदिनामपि एष ते पिण्ड इत्येव प्रयोग इति मैथिलमतमपा स्तम्, पिण्डशब्दस्य नपुंसकलिङ्गेऽपि प्रयोगात् । तेनैतच्छन्नैव पिण्ड स्योपस्थितत्वादध्याहारं विनैव प्रयोगोपपत्तेरिति स्मृति चन्द्रिकाका रादयः । हेमाद्रिस्तु "इषे त्वे" त्यादौ छिनमीत्यध्याहारवदत्रापि वाक्यपू रणाय अन्नपदं पिण्डपदं वाध्याहार्ये अत्त एव कर्कभाष्ये अन्नशब्द उ पलक्षणार्थः । तयोरपि च व्यवस्थोक्ता लगाक्षिणा । महालये गया श्राद्धे प्रेतश्राद्धे दशाहिके । पिण्ड शब्दप्रयोगः स्यादन्नमन्यत्र कीर्त्तयेत् ॥ इति । एतद्वचनोपत्तिषु श्राद्धेषु एतत्ते पिण्डमिति प्रयोगः | अन्यत्र तु एतते अन्नमिति प्रयोग इत्याह ।