पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

पिण्डदानेतिकर्तव्यता २५९ अन्ये तु इषे स्वेत्यादौ क्रियाविशेषस्यापेक्षितत्वाचुक्तः छिनझोत्यध्याहारः, प्रकृते तु द्रव्यविशेषस्यैतच्छन्द नैव समर्पणा दग्नय इदं न मम इतिवन्नाध्याहारः । तेन प्रकृतौ एष ते पिण्ड इति गोभिलवाक्यात् गौभिलीयानामेष ते पिण्ड इत्येव प्रयोगः | वाजसनेयिनामपि 'एतत्ते पिण्डमित्युक्त्वा दधुर्वाजसने धन” इति भविष्यपुराणवचनादेतते पिण्डमित्येव प्रयोगः। एतस्यापि वचनस्य प्रकृतावेवान्नातत्वात् । अन्येषां तु प्रागुकलौगाक्षिवचनाद्व्यवस्थेत्याहुः । शास्त्रापरतया वा व्यवस्थेति दिकू । अत्र च स्वधानमःशब्दो प्रयोज्यावित्याद्द - शामायनिः । असावेतच इत्युक्त्वा तदन्ते च स्वधानमः | अत्र च नमः शब्दान्तं मन्त्रमुचार्य पुनः पित्रादीन चतुर्थ्यन्त पढ़े नोद्दिश्येदं न ममेति उच्चार्य, शिष्टाचारादिति हेमाद्रिः । अतश्चैवं प्रयो गवाक्यं कार्तायानाम्, अमुक गोत्रास्मत्पितरमुकशर्मन एतत्तेऽन्न पिण्ड वा स्वधा नमः, इदममुकगोत्रायास्मतिपत्रेऽमुक शर्मंण न ममेति । अत्र आचारावगतवाक्यात्पू ये च त्वामन्विति मन्त्रः पठनीय इत्याह- कात्यायनः । ये च त्वामन्विति चैके। एकग्रहणं पक्षप्राप्त्यर्थमिति स्मृतिचन्द्रिकाकारः | हेमाविस्तु एकग्रहणं परमतत्वसूचनार्थे तेन वाजसनेयिनामयं न भवत्येष । अत एव शतपथे ये च त्वामन्वित्युहैक आहुः तदु तथा न ब्रूयादिति । हलायुधस्वरसोप्येषम् । बौधायनस्तु मन्त्रान्तरमाइ- एतत्ते तत असौ ये त्वामत्रान्विति । गोभिलोऽपि । असावेष ते पिण्डो ये चात्र त्यानुतेभ्यश्च स्वधेत्यनुषजेत् । विष्णुरपि । उच्छिष्टसन्निधौ दक्षिणात्रेषु दर्भेषु पृथिवीदर्विरक्षितत्यकं पि ग्रड पिज्बे निदध्यात्, अन्तरिक्षं दर्वि रक्षितेति द्वितीयं पितामहाय, द्यौविरक्षितेति तृतीयं प्रपितामहाय| एतन्मन्त्रान्तर्गता सौशब्दे ना. मगोत्रोच्चारणं कर्त्तव्यमिति हेमाद्रिः । शौनकाथर्वणश्राद्धकल्पे वैते. रेव मन्त्रैः पिण्डार्थाश्रोद्धरणं उक्त्वा एतत्ते प्रपितामहेत्यादिमन्त्रैः