पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

२६० वरिमित्रोदयस्य श्राद्धप्रकाशे- मपितामहादारभ्य पितृपर्यन्तं पिण्डदानं उक्तम् । द्यौदर्विरक्षितेति ति सृभिः सर्वान्नप्रकार मुद्धृत्याज्येन सन्नीय त्रीन्पिण्डान् संहतान्शिद. धात्येतत्ते प्रपितामहेतीत्यादिना | पिप्पलादाथर्वणश्राद्धकल्पे तु विपरीतः क्रमो नोक्तः । एषां च पक्षाणां तत्तच्छा खानुसारेण व्यव स्था द्रष्टव्या | अत्र च पित्रादीनां नामाशाने- गोभिलः । यदि नामानि न विद्यात् स्वधा पितृभ्यः पृथिवषिद्रय इति प्रथमं निदध्यात् स्वधा पितृभ्योऽन्तरिक्षसङ्ख्य इति द्वितीयं स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयं निधायेति । गोत्राज्ञाने काश्यपगोत्रमाह - व्याघ्रः । गोत्रनाशे तु काश्यपः, इति । नाशो अज्ञानम् । अत्र षढ्दैवत्यश्राद्धादौ मातामहवर्गस्थापि गोत्रसम्बन्धनामानि प्रयुज्य प्रयोगोऽनुष्ठेयः । "योज्यः पित्रादिश- ब्दानां स्थाने मातामहादिक" इत्यापस्तम्बचचनात | एव नवदैवत्येऽपि मातृवर्गे स्त्रीलिङ्गानि गोत्रसम्बन्धनामानि प्रयुज्य प्रयोगः कार्यः । अत्र चावनेजनमन्त्रे आश्वलायनानां शुन्धन्तां मातामहा, शुन्ध न्तां मातर इत्यादि ऊहो मातामहयोर्ज्ञेयः । अवनेजनमन्त्रे पित्रादि- शब्दानां प्रकृत्यंशे समवेतार्थकत्वात् । मातृवर्गे ये च त्वामत्रान्वि त्यूह इति हेमाद्रिः । तत्र | एतत्पिण्डरूपमशं तुभ्यं, ये चान्ये अन त्वामनुयान्ति तेम्बश्चेत्ययं खलु तस्यार्थः । न चानुयाबिनः पुरु. षस्य पुरुषा एव स्त्रियो वा स्त्रीणामिति नियमे प्रमाणमस्ति, तेन स्त्रीणामपि पुंसो अनुयाबिनः सम्भवन्तीति नाहासद्धिः । आपस्तम्बेन तु एतत्ते मातरसौ याश्च त्वामत्रान्वित्येव मन्त्रः पठित इति तेषां तारश एव । अत्र च नवदैवत्ये सपत्नमात्रादीनामपि श्राद्धं भवत्येव "पितृपत्म्यः सर्वां मातरः" इति सुमन्तुना तास्वपि मातृत्वाद्यतिदे. शात् । तत्रापि च जनन्यादिस्थानीयब्राह्मणे तत्पिण्डे वा तासामुद्देशो न तु पृथक् । अनेका मातरो यस्य भावे चापरपक्षिके | अर्ध्यदानं पृथक्कुर्यात्पिण्डमेकं तु निर्वपेत् ||