पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

पिण्डदानेतिकर्तव्यता | २६१ इति गालववचनात् । एवं च पिण्डदाने एततेऽसौ इति मन्त्रे असौशब्दस्थाने वामिति ब्रूयात् | त्वाशब्दस्थाने च युष्मानिति घ्यात् । नारायणवृत्तिस्वरसोऽप्येवम् । इदं च मातृश्राद्ध वृद्धिव्य रिक्तश्राद्धेषु तीर्थमहालयान्वष्टकादिषु पितृपार्वणानन्तरमेव | क्षयाहे केवलाः कार्या वृद्धावादौ प्रकीर्त्तिताः । सर्वत्रैव हि मध्यस्था नान्त्याः कार्यास्तु मातरः ॥ इति छागलेयवचनादिति हेमाद्रिः । शूलपाणि[स्तुपूर्व ] मेव । क्षयाहे केवला: कार्या वृद्धावादौ प्रकीर्तिताः । अष्टकासु च कर्त्तव्यं श्राद्धं हैमन्तिकासु वै ॥ अन्वष्टकासु क्रमशो मातृपूर्व तदिष्यते । इति ब्रह्मपुराणवचनादन्वष्टकासु मातृश्राद्धं पूर्वमेधेस्याह । वस्तुतस्तु - पितृभ्यः प्रथमं दद्याम्मातृभ्यस्तदनन्तरम् | ततो मातामहेभ्यश्चेत्यान्वष्टक्ये क्रमः स्मृतः ॥ इति हेमाद्रबुदाहृतब्रह्माण्डपुराणवचने मध्येऽप्युक्तत्वाद्विकल्पः । एवं "पित्रादिनवदैवत्यं तथा द्वादशदैवत"मित्यग्निपुराणवचनाद्यत्र वैकल्पिकं तीर्थमहालयादौ द्वादशदेवत्यं तत्रापि मातामयादीनाम वनेजन मन्त्रादावूही बोभ्यः । निवेशस्तु तालां सर्वान्ते "आगन्तुनाम- न्ते निवेश" इति न्यायात्, मातृपार्वणे तु बचनादादौ मध्ये वा निवेशः | स्मृतिरमावलीकारादयस्तु षड्दैवत्वमेव गयाव्यतिरिकतीर्थमहालवादावित्याहुः । अमावास्यायान्तु केषां चित् षड्दैवतं केषाञ्चिच्छाखिमां मवदैवत्यं वा तेषां शास्त्रानुसारेण व्यवस्था । अत्र च नवदैवत्ये द्वाद शदैवत्ये वा पार्वणानां पदार्थानुक्रम एव, तत्र पदार्थप्रत्यासत्तिला- मावत । एवं च वेदिकरणादयः पदार्था एकस्य कृत्वा अपरस्यापि कर्तव्याः । तत्र वेदिकरणं मातृमातामह्यादीनां न भिक्षं पश्चिमेन तत्पीनां किञ्चिदघयेति सांख्यायनगृझे किचिदन्तनोक्तवा बेधभेदप्रतीतेः । मातामहपार्वणस्य तु भिना वेदिरितिश्राद्धकल्पः । लेखा तु मातापित्रोसिंचैव अत एवान्वष्टकाया मावळायनः । कर्पूच्येक द्वयोः षट्स व पूर्वासु पितृभ्यो दद्यादपरासुत्रीभ्यः |