पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

२६२ वीरमित्रोदयस्य श्राद्धप्रकाशे- कर्पू =अवट: एकप्रहणमतिदेशप्राप्ताया लेखाया अबाधार्थम् । तेन लेखया सह विकल्पः । यदा द्वे कब तदा आयते भवतः, यदा षट् तदा परिमण्डलाः । पूर्वासु = पूर्वा च पूर्वाश्च ताः पूर्वाः तासु । तथा चायमर्थः । पूर्वस्यां लेखायां पूर्वस्यां कर्वी पूर्वकर्षषु पितृभ्यो दद्यात् । पक्षत्रयेऽपि पूर्वस्यामेव पितृभ्यो दद्यादित्यर्थः । अपरा=अत्रापि पूर्व- बदेकशेषः तेन कर्पूर्वा प्रतिपार्वणे लेखा मातापित्रोर्भिन्ना | यदा तु कर्पूषटकं तदा प्रतिदैवत कर्ष्भेदः । मातामहपार्वणे तु लेखा भित्रैव वेदेरेव भिन्नत्वात् । एवं मातामह्यादीनामपि लेखाभेदः । दक्षिणाप्राया मातामहलेखायाः पश्चिमेन मातामह्यादीनां पिण्डदानविधानात् । अता दर्भास्तरणाचनेजनादिकमपि भिनमेव गृह्यमाणविशेषत्वात् । एवं उन्मुकनिधानमपि भिनं, रेखापुरोभागस्य भिन्नत्वेन गृह्यमाण- विशेषत्वात् । इदं च नवदैवत्यश्राद्धादौ मातुः पृथक् पिण्डदान यदि माता अकृतसहगमना तदा बोध्यम् । यदा तु सा कृतसहगम- ना तदा भर्तारं तां चोद्दिश्य [ एक ] एच पिण्डो देयः । मृताइनि समासेन पिण्डनिर्वपणं पृथक् । नवश्राद्धं च दम्पत्योरन्वारोहण एव तु ॥ इति लौगाक्षिवचनात् । मृताहनि= मृततिथ्येकत्वे | तेन तिथिभेदे पृथगेव श्राद्धम् | समासेन= एकस्मिन्पिण्डे द्वयोरुपलक्षणरूपेण | पृथक् नवश्राद्धं च=चस्त्वर्थो नवभाद्धं तु पृथगित्यर्थः । पृथक्त्वं च पूर्वोत. समासविपर्ययः तेन प्रधानभेदमात्रम्, अङ्गतन्त्रता न भवत्येव । अत एव भृगुः | नवश्राद्ध युगपन्तु समापयेदिति । समापनं आर म्भस्योपलक्षणम् । अत्र च नवश्राद्ध एव पृथक्त्वविधानादन्यत्र तीर्थमहालयादौ पृथक्त्वपरिसंख्यायाः समासोऽवगम्यते । एवं चो पक्रमगतो मृताइशब्दस्तीर्थमहालयाद्यपलक्षणार्थः । एवं च- एकचित्यां समारूढौ दम्पती निधनं गतौ । पृथक् श्राद्धं तयोः कुर्यादोदनं च पृथक्पृथक् || इति स्मृत्यन्तरं नवश्राद्धविषयमिति मदनपारिजातादयः । श्राद्धं ब्राह्मण मोजनात्मकं प्रधानं । ओदनं पिण्डरूपं । हेमाद्रिप्रभुतयस्तु मृताह नीति विशेषभवणात्सावत्सरिकमात्रविषयमेतत् तेन तीर्थादौ पृथगेव देयमित्याहुः । न च नवश्राद्धे पृथक्त्वविध्यानर्थक्यं मृताहमात्र एव समासविधानात् अन्यत्र समासाप्राप्तेरिति वाच्यं | अनुवादस्वारपू