पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

पिण्डदानेतिकर्तव्यता । २६३ थक्त्वश्रवणस्य । अत एव नवश्राद्धग्रहणमितरक्षाद्धोपलक्षणार्थ । अथ वाऽङ्गतन्त्रताप्राप्त्यर्थं नवश्राद्धे पृथक् ग्रहणं भृगुवचनैकवाक्यत्वात् । पितृपार्वणे पिण्डदानानन्तरं प्रपितामहात्परांस्त्रीनुद्दिश्य तूष्णीं चतुर्थ पिण्डं फलभूमार्थ दद्यादित्यापस्तम्बः | तूष्णीं चतुर्थ स कृताकृतः प्रपितामहप्रभृतीन । उद्दिश्येति शेषः । तूष्णम् = अमन्त्रकम् कृताकृतो= वैकल्पिकः । अतश्च करणं फलभूमार्थे, अन्यथा अकरणेनैव साङ्गत्वसिद्धौ करणविध्यानर्थक्यापत्तेः । प्रपित सहप्रभृतीनित्य तद्गुणसंविज्ञानो बहुव्रीहिः । तेन प्रपितामहात्परांस्त्रीनुद्दिश्येत्ययमर्थो लभ्यते । देवलेन तु मातृपार्वणपिण्डदानानन्तरं ज्ञातिवर्गस्य सामान्यपिण्डो देय इति उक्तम् । हविःशेषं ततो मुष्टिमादायैककमादितः । क्रमशः पितृपत्नीनां पिण्ड निर्धपणं चरेत् || ततः पिण्डमुपादाय हविषः संस्कृतं महत् । शातिवर्गस्य सर्वस्य सामान्यमिति निर्षपेत् । पिण्डदानानन्तरं तदन्तिके तच्छेषविकिरणमुक्तं गाइडे पिण्ड शेषविकिरणं च पिण्डान्तिकं इति गद्यरूपेण । अत्र च पिण्डदानानन्तरं प्रपितामहात्परांस्त्रीनुद्दिश्य तेषामयं भागो Sस्तु इति ब्रुवन् दर्भमूले करावघर्षणं कुर्यात् । तथा च- मनुः । TOPDE न्युष्य पिण्डान्पितृभ्यश्च प्रयतो विधिपूर्वकम् | तेषु दर्भेषु तं हस्तं निर्मृज्याद्वेषभागिनाम् || लेपभागिनश्च मत्स्यपुराणे दर्शिताः । [अ० ३ श्लो० २१६ ] लेपमाजश्चतुर्थाद्याः पित्राद्याः पिण्ड मागिनः । पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपुरुषम् ॥ निर्मार्जनं च मूलप्रदेशे । अत एव विष्णु, दर्भमूले करावघर्षणम् । अत्र मन्त्र उक्तः मैत्रायणीयसूत्रे बर्हिषि हस्तं निर्माष्ट पात्रपितरः स्व घातया यूयं यथाभागं मादायध्वमिति अत्र पितरोमादायध्वमिति था। मानवमैत्रायणीये तु पूर्वमन्त्रस्य जपमात्रमुक्तं दक्षिणां दिशमन्वींक्ष. माणो जपतीति । इदं च पित्रादित्रिकदर्भमूल एव करसंमार्जनं वृद्धप्रपितामहार्दानामेव लेपमागित्वात् । अत्र च षडदैवत्यश्राद्धादौ स वेंषां पार्वणानामन्ते करसंमार्जनं कार्य लाघवात् ।