पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- स्वापध्ये प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ । पितामहाय चैवाथ तत्पिइये च ततः परम् । दर्भमूले लेपभुजं प्रीणयेल्लेपघर्षणैः ॥ पिण्डर्मातामहांस्तद्वद् गन्धमाझ्यादिसंयुतैः । श्रीणयित्वा द्विजाग्याणां दद्यादाचमनं ततः ॥ २६४ यन्तु विष्णुपुराणम्- इति, तक्ष क्रमकल्पकं, किन्तु दर्भमूलावधायकं, अन्यथा प्रत्यव नेजनादेः प्रागपि तदुक्तब्राह्मणाच मनापतेरिति स्मार्त्तमहाचार्यः । अत एव पितृदयिताश्राद्धकल्पप्रभृतिभिः षपिण्डानन्तरमेव करसंमार्जनं लि खितम् । रायमुकुटादयस्तु यथाश्रुतविष्णुपुराणवचनात् । श्रींस्तु तस्माद्धविःशेषात्पिण्डान्कृत्वा समाहितः । औदकेनेव विधिना निर्वपेद् दक्षिणामुखः ॥ [ अ० ३ लो० २१५ ] म्युष्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम् । तेषु दर्भेषु तं हस्तं निर्मृज्यालेपभागिनाम् || इति मनुवचनाञ्च पितृपार्वणे पिण्डदानानन्तरं करसंमार्जन का र्यमित्याहुः । न चैतस्य विष्णुवचनस्य क्रमकल्पकत्वे प्रत्यवने जनस्या. पि ब्राह्मणाचमनोत्तरकालत्वापत्तिः । विष्णुपुराणे प्रत्यवनेजनस्यानुक्तस्वात् । अत्र चैकोद्दिष्टे लेपभुजामसंभवेऽपि निरुद्देश्यककरसंमार्ज- नादिकं कर्त्तव्यमेव, साधारणप्रवृत्तप्रागुतब्रह्मपुराणवचनादिति स्मातंमहाचार्यः । अत्र च हस्तोन्मार्जनस्य दृष्टार्थत्वाद्यदि हस्तलेपो नास्ति तदा नोम्मार्जन कर्त्तव्यं शकल्लोहितानेरसनवत् । मेधातिथिहरिहरप्र- भृतयस्तु यद्यपि हस्ते लेपो न भवेत् तथापि उन्मार्जन कर्त्तव्यमेव, नहास्य प्रतिपत्ति कर्मत्वं किं ताई हस्तान्मार्जनं अदृष्टार्थम् । अत एव विष्णुस्मृतौ करावघर्षणमात्रं धूयते अतश्च ताडशस्य लेपाभावेऽपि कर्ते शक्यत्वाद्भवत्येवोम्मार्जनं । न च लेपभागिनामित्यस्यानुपपत्तिः लेपशब्दयात्रा नरसोष्मादिपरत्वात् । पिण्डदाने हि क्रियमाणे अन्नर- सोष्मादिकं किञ्चिद्धस्ते संक्रामस्येव अतस्तादृशंसक्रान्तावरस एव लेपभागिनामयं भागोऽस्थिति ब्रुवन् हस्तं निमृज्यादित्याहुः ।