पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

पिण्डदानेतिकर्तव्यता | २६५ पिण्डदानानन्तरम्- मनुः । आचस्योदक् परावृत्य त्रिरायम्य शनैरसुन् । षडयूतून्नमस्कुर्यात्पितॄनेव च मन्त्रवत् | [अ०३श्लो०२१७] आचमनं च हस्तप्रक्षालनपूर्वकं कर्त्तव्यमित्युकम्- ब्रह्मपुराणे, ततो दर्भेषु तं हस्तं समृज्य च करौ पुनः । प्रक्षाल्य च जलेनाथ त्रिराचम्य हारे स्मरेत् ॥ त्रिरिति च "निर्वर्त्य पितृकर्माणि सकृदाचमनं चरेत्" इत्यस्यापवा दार्थमिति हेमाद्रिः । “त्रिः पिबेद्वाीक्षेत तोय" मित्यादिना यत्सामान्यतो विहितं त्रिराचमनं तदत्र त्रिरावर्त्तन इति श्राद्धचिन्तामणिः । एकाचमने त्रिस्तोयपानं यद्विहित तस्यैवायमनुवाद इति श्राद्धदीपिका । उदक्परावृ स्य = उदीची दिशं परावृत्य, परिवर्त्तनेनोत्तराभिमुखो भूत्वेत्यर्थः । इदं चोदम्परावर्त्तन पिण्डानामनुमन्त्रणपूर्वकं कन्तव्यमित्याह - आइवलायनः । निवृताननुमन्त्र येतात्रपितरो मादयध्व यथाभागमावृषायध्व- मिति सव्यावृदुदगावृत्येति । नितान् = विधिपूर्वकं दर्भेषु निहितान् | सध्यावृत् = सव्यप्रकारमप्र- दक्षिणमित्यर्थः । उदगावृत्य = उदगन्त मेवावृत्य | छन्दोगपरिशिष्टे विशेष उक्तः । वामेनावर्त्तनं केचिदुदगन्तं प्रचक्षते । सर्व गौतमशाण्डिल्यौ शाण्डिल्यायन एव च ॥ इति । वामेन= वाममङ्गं पुरस्कृत्य | उदगन्तव्यावदुदङ्मुखो भवति तावदित्यर्थः । केचित् = गौतमादिव्यतिरिक्ताः । ते तु सर्व सव्येनापसब्बेन वा परावर्त्तन प्रचक्षत इत्यर्थः । उदकूपरावर्त्तनानन्तरं च उत्तराभिमुखेन श्वासनियमनं कार्य प्रागुतमनुवचनात् । अत्र च मनुवचने त्रिरिति श्रवणादुक्तलक्षणं प्रा णायामंत्रिः कृत्वेत्यर्थ इति मेषातिथिः । विनैव मन्त्रेन प्राणानां निय मनमिति तु कर्कादिबहुसंमतोऽर्थः । श्वासं नियम्य षट् ऋतून्पितॄंश्च नमस्कुर्यादित्याह- स एव । षट्ऋतूंस्तु नमस्कुर्यापितॄनेव च मन्त्रवत् | बी० मि ३४