पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

पिण्डदानेतिकर्तव्यता एतद्वः पितरो वास इति जल्पन् पृथक् पृथक् । अमुकामुकगोत्रैतत्तभ्यं वासः पठेचतः ॥ दद्यात्क्रमेण वासांसि श्वेतवस्त्रभवा दशाः | गते वयलि वृद्धानि स्वानि लोमान्यथापि वा ॥ क्षौम सूत्रं नव दद्यात् शाणं कार्पासमेव च । कृष्णोर्णा नीलरक्तान्य कौशेयानि विवर्जयेत् ॥ मधु चाज्यं जलं चाह्ये पुष्पं धूपं विलेपनम् । वलिं दद्यात्तु विधिवत्पिण्डोऽष्टाङ्गो भवेद्यथा || सम्पूजयित्वा विप्रांस्तु पितॄंश्च प्रणमेहतुन् । वसन्ताय नमस्तुभ्यं ग्रीष्माय च नमो नमः ॥ वर्षाभ्यश्च शरत्संशॠनवे च नमो नमः । हेमन्ताय नमस्तुभ्यं नमस्ते शिशिराय च || माससंवत्सरेभ्यश्च दिवसेभ्यो नमो नमः ॥ इति । २६७ एवं च तेषां एतद्वचनानुसारात् ऋतुनमस्कार: पिण्डपूजानन्तरमेव भवति । अत एव श्राद्धचिन्तामणिरपि ब्रह्मपुराणोकऋतुनम- स्कारस्य सामगपरत्वं तत्सुत्रसंवादादित्याह । क्षौमं=अतसीप्रभवम् । अतसी स्यादुमा क्षमेत्वमरात् । इदं च ब्रह्मपुराणोक्तं ऋतुनमस्करणं दक्षिणाभिमुखेनैव कर्त्तव्यम् । एवं च उदपरावृत्य श्वासं निरुध्य पुमस्तेनैव पथा परावर्त्येति स्मार्चमते अनुष्ठानक्रमः सिद्धो भवति । उदङ्मुखावस्थानस्यावधिमाह - कात्यायनः । इदङ्ङनस्ते आदमनात् । तमन= अलानि, तदवधि । अतश्चोदङ्मुस्वावस्थानमात्रेण ग्लानेरसम्भवात् कात्यायनानुक्कमपि श्वासनिरोधात्मकं शास्त्रान्तरोपदिष्टं ग्लानिकारणं अवश्यस्वीकर्त्तव्यम् । भ्वासनिरोधानन्तरं- स एव । आवृत्यामीमदन्तेति जपति । आवर्त्तनं तेनैव मार्गेणेति कर्कः । अस एव छन्दोगपरिशिष्टे । जपंस्तेनैव चावृत्य ततः प्राणं विमोचयेत् । जपन्=अमीमदन्तेति मन्त्रमिति शेषः । भाषं विमोचयेत्=उच्छ्वसे-