पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

२६८ वीरमित्रोदयस्य श्राद्धप्रकाशे- दित्यर्थः । अत्र च जपन्निति श्रवणाजपतोऽभ्यावृत्तिः प्रतीयते । कात्यायनादीनां तु अभ्यावृत्युत्तरकालं जप इत्येतावान्विशेषः । अत एव तेषामस्मिन् जपे दक्षिणामुखत्थं प्रागुतगरुडपुराणैकवाक्यत्वात् । छन्दोगानां तु [न] दक्षिणामुखत्वं परावर्त्तन समय एव जपवि धानात् । अयं च मन्त्रजप उपांशु कर्त्तव्यः जपत्वात् श्वासानरोधेन व्यक्तजपस्य कर्त्तमशक्यत्वादिति स्मार्त्तः । आपस्तम्बेन तु पिण्डविधानानन्तरं मन्त्रान्तरेणोपस्थानमुक्त्वा अत्र पितर इत्यनयोर्मन्त्रयोः पाठान्तरेण विनियोगो दर्शितः । यन्मे माता प्रलोभ यच्चचाराननुव्रतम् | तन्मे रेतः पिता वृतां माभ्युरन्योपपद्यताम् || पितृभ्यः स्वधायिभ्यः स्वधा नमः पितामहेभ्य: स्वधायिभ्य: स्वधानमः प्रपितामहेभ्यः स्वधायिभ्यः स्वधानम् इति उपस्थायात्र पितरो यथाभागं मादयध्वमित्युक्त्वा परागावर्त्तते ओष्मणो व्यावृ त उपास्तेऽमीमदन्तपितरः सोम्यास इति । आऊष्मणः = पिण्डोष्मापगमं यावत् | अमीमदन्तेत्यस्यानन्तरं पि ण्डावशिष्टान्नाघ्राणमुक्त्वा प्रत्यवनेजनमुक्तम्- आश्वनायनसुत्रे | चरोः प्राणभक्षं भक्षयेत् । । चरोः = पिण्डावशिष्टस्य | प्राणभक्षं = अवघ्राणं यथाकृतं भवति तथा भक्षयेत् =अवजिघ्रेत् । आपस्तम्बेन तु पिण्डावशेषस्य आघ्राणमुक्त्वा तस्य समन्त्रकं काम्यं भक्षणमुक्तम् । यः स्थाल्यां शेषस्तमवजिघ्रति- ये समानाः सुमनसः पितरो यमराज्ये । - तेषां लोकः स्वधा नमा यज्ञो देवेषु कल्पताम् । वीरं मे दत्तपि. तर इति आमयाविना प्राइयो अन्नाद्यकामेन प्राइयो योऽलमन्नाद्याय तेन वा प्राइयः । आमयावी = रोगी अस्य चौचिश्याशिवृत्तिशेषत्वेनैव कास्यत्वम् | अन्नायं =अन्नं तत्कामोऽपि भक्षयेत् । यो वा अन्नाद्यायालं- समर्थः सन अरुच्यादिना नाद्यात्स तदुस्पत्यर्थ भक्षयेत् । कात्यायनस्तु अवत्राणमनुक्त्वा अमीमदन्तेत्यस्व जपस्यानन्तरं कर्त्तव्यमाह । अवनेज्य पूर्ववत्रीय विस्रस्य नमो व इत्यञ्जलिं करोति । इंद