पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

पिण्डदानेतिकर्तव्यता | २६९ चावनेजनं पूर्वाधने जनजलशेषजलेन । “तेभ्यः संस्रवपात्रेभ्यो जलेनैवावनेजनम्" इति ब्रह्मपुराणचचनात् । संस्रवपात्रेभ्यःपूर्वदत्तावनेज नपात्रेभ्यः । मनुवचनेऽपि । उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः । [ अ० ३ श्लो० २१८ ] इदं च सामगभिन्नवाजसनेयादिपरं, तेषां तु पिण्डपात्रक्षालनजलेन "तत्पात्रक्षालनेनाथ पुनरव्यवनेजयेत्" इति छन्दोगपरिशिष्यत् । केचित्तु वाजसनेयिनामपि पिण्डपात्रक्षालनजलेनैवेच्छन्ति । अत्र चावनेजनवाक्य शेषशब्दप्रतिपत्तिकर्मत्वम् । एवं च दैवादस्य जलस्य नाशे नेदं प्रत्यवनेजनं कार्यमिति मेघातिथिः । वस्तुतस्तु आश्वलायनसूत्रे नित्यं निनयनमिति नित्यग्रहणात् कर्तव्यमेव । हेमाद्रिरप्येवम् । अपने जनानन्तरं पिण्डपात्रस्य म्युब्जीकरणमुक्तम्- गारुडे । कृत्वावनेनं कुर्यात्पिण्डपात्रमधोमुखम् । नावी विलस्येति । वामकट्यां वस्त्रदशासङ्गोपनं नीविरिति हेमाद्रिः । तामुम्मुच्य | नविविस्रंसनानन्तरं आचमनं कार्य नीवीं विस्रस्य परिधायोपस्पृशेदिति बौधायनवचनात् । केचिन्तु नीविविस्रंसनस्य द्विराचमनप्रकरणे कात्यायनेन पाठा द्विराचमनमेव कार्यमित्याहुः । अन्ये तु न तु कर्मस्थ आचामेहक्षिणं अवणं स्पृशेदिति वचना- स्कर्णस्पर्शमाहुः । किमपि न कार्यमिति पितृभक्तिः । नमो व इति अञ्जलिं करोतीति । अञ्जलिः=करसम्पुटः । अञ्जलिमावघ्नन्पिण्डाभिमुखः पितृ- भ्यो नमस्कारात्कुर्यादित्यर्थः । अत्र च प्रतिमन्त्रं षट्कृत्वो नमस्कारः । "आषट्कृत्वो नमस्करोती ति श्रुतेः । अतश्च प्रतिनमस्कारमञ्जलिकरणमावत इति कर्कः । ते च नमो वः पितरो रसायेत्यादि पित रो नमो व इत्यन्ताः । अत्र च तत्तच्छाखान्तरे तत्चत्सुत्रान्तरे च ये मन्त्राः पठितास्ते तत्रैव द्रष्टव्याः | मैत्रायणीयपरिशिष्टेषु तु अञ्जलेः पिण्डोपरि करणमुकम् । मिषतेऽञ्जलिं कृत्वा नमो व इत्यादि । निब्रुवनं= पिण्डोपरि पाण्योः करणम् । अथ प्रस्तरे निहुचत इत्यादिषु तथा प्रमितेः। गोमिलस्तु निहुवने विशेषमाह | अथ निहुवते