पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

२७० वीरमित्रोदयस्य श्राद्धप्रकाशे- पूर्वस्यां दक्षिणोत्तानो पाणी कृत्वा नमो वः पितरो जीवाय नमो वः पितरः शोषायेति मध्यमायां सव्योत्तानो नमो वः पितरो नमो व इति दक्षिणोत्तानाविति । दक्षिणपाणिभुत्तानं कृत्वा तदुत्तरमुक्तम् । कात्यायनैस्तु नमस्कारानन्तरं वालोदान कार्ये तथा च- स एव । एतद् इत्यपास्थति सूत्राणि प्रतिपिण्डं ऊर्णा दशां वा वयस्युत्तरे यजमानस्य रोमाणि वा । सूत्राणीति बहुवचनात्त्रीणि त्रीणीति कर्क | ऊर्णा= मेषरोमाणि । इयं ऊर्णा श्वेताया ग्राह्या, कृष्णायाः "कृष्णोर्णा नीलरक्तानि अकौशेयानि वर्जये” दिति ब्रह्मपुराणे निषेधात् | दशा = वस्त्राञ्चलसूत्राणि । सूत्राणीत्यनेनैव दशाया अपि सिद्धेः पुनर्दशाग्रहणं दशाया अनुकल्पत्वसूचनार्थम् । अत एव वायुपुराणे-- वर्जयेत्तु दशां प्राशो यद्यप्यहत कोद्भवामिति निषेध इति हेमाद्रिः । अत एव श्वेतवस्त्रभवादशा इति ब्रह्मपुराणवचनं पित्र्यनुकल्पत्वपर मिति व्याख्येयम् । न चात्र श्वेनदशाया विधानाद्वायुपुराणीयदशानिषेधः कृष्णदशाविषयोऽस्त्विति वाच्यम् । तत्राइतकोद्भवामिति श्रवणादहत कस्य च शुक्लत्वेन तस्या अपि निषेधप्रतीततेः । भानूपाध्येयोऽध्येवम् । अन्ये त्वद्दतस्थाहतं यन्त्रनिर्मुक्तमिति वचनान्नूतनपर्यायस्थावगमान्नूतनक इणनिषेधार्थ वायुपुराणवचनम् । अत एव शुक्लव स्त्रदशाभवं सूत्रमिति पि तृदविता, वयस्युत्तरे यजमानरामाणि चेति । शतवर्षस्यायुषः समं भागद्वयं प्रकल्प्य द्वे वयसी कल्पते तत्रोत्तर उपरितने वयास वर्त्तमानस्य यजमानस्य लोमानि तानि च प्रशस्ताङ्गकत्वादुरस्थितान्येव ग्राह्याणि । उत्तरे वयस्पुरोलोमानीति सुत्रान्तरदर्शनात् । वाशब्दादस्मिन्नपि वयसि सूत्रादिना विकल्पो लोम्नामिति दर्शितमिति हेमाद्रिः । एतच्च सु त्रादिवस्त्राभावे वेदितव्यम् । अथ वस्त्रमभाव दशामूर्णा वेति विष्णुव चनात् । अत्र च प्रतिपिण्ड मित्यमिधानादेतद्व इति मन्त्रः प्रतिपिण्ड मावर्त्तते । बहुवचनं प्रयोगसाधुत्वार्थम् | यत्त्वत्र वाचस्पतिनान्यैरपि (१) गौड रुकमत एव द्विपाशिकाया विकृतौ बहुवचनान्तमेव पाशपदं प्रयोक्तुमुचित मित्युक्तं (२) पाशाधिकरण इति, तन्मीमांसानवबोध- ( 1 ) अत्र कश्चिद स्त्रुटित इति । ( २ ) पू० मी० अभ्या• ९ पा० ३ अ० ४ सू० १०-१४ ।