पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

पिण्डदानेतिकर्तव्यता । २७१ विलसितम् । अत्रापि च तत्तच्छाखाभेदेन सुत्रभेदेन च ये मन्त्रा उक्तास्ते तत्रैव शेयाः । मन्त्रपाठोत्तरं वाक्यप्रयोग उक्तो ब्राह्मे - पतद्वः पितरो वास इति जल्पन्पृथक् पृथक् । अमुकामुकगोत्रैतत्तुभ्यं वासः पठेत्ततः । अयं च वाक्यप्रयोगो मन्त्रपाठोत्तरकालीनत्वात्प्रतिपिण्डमाव लेते । एतद्वः पितरो वास इत्युक्त्वा वाक्यपूर्वकम् । सम्बोध्य प्रतिपि ण्डे तु वस्त्रं वापि विनिः क्षिपेत" इति भविष्यवचनाश्च । एतेन चामुकगोत्रा अमुकशर्माण एतानि वः पिण्डेषु वासांसि स्वधत्युक्त्वा एतद्वः पि तरां वास इति प्रतिपिण्डं दद्यादिति रायमुकुटकारमतं परास्तम्, पूर्वोक्तवाक्यविरोधात । अत्र च नवदवत्यश्राद्धादौ मातामहपार्षणे वा नास्य मन्त्रस्योहः प्रकृतो पिण्डपितृयज्ञे पितृशब्दस्य सपिण्डीकर णसस्कारवचनत्वात् पितामहप्रपितामइयोरपि मन्त्रप्रयोगात् । अत्र च वस्त्रादीनामभ्युक्षणं कृत्वा दानमुक्तमानवमैत्रायणयिसूत्रे "वास ऊर्जा दशां वाभ्युक्ष्य पिण्डदेशे निदधाति” । । अत्र कैश्चित्सूत्रकारैर्वासोदानात्पूर्व गृहाद्यवेक्षणाञ्जनदानाम्युक्तानि । तत्र गोभिलस्तावद् गृहानवेक्षन गृहान्नः पितरो दत्तेति पिण्डा- नवेक्षेत सतो वः पितरो देष्मेति । अत्र गृहशब्देन पत्म्युच्यते गृहा: पस्तीति तेनैवोत्तत्वादिति स्मार्तः । अञ्जनाभ्यञ्जने त्वाश्वलायनेनोक्ते | असावभ्यङ्क्ष्वासावक्ष्वेति पिण्डेन्चभ्यञ्जनाञ्जने वालो दद्यादिति । अभ्यञ्जनं तैलम् । अञ्जनं त्रैककुदादि । तदुक्तम्- ब्रह्मपुराणे । श्रेष्टमा हुस्त्रिककुदमखनं नित्यमेव च । तैलं कृष्णतिलोत्थं तु या त्सुपरिरक्षितम् । श्रेष्टमा हुरित्यभिधानात्तदभावे कज्जलाद्यभ्यनुज्ञा गम्यते । वासः सुत्रदानानन्तरम् । कात्यायनः । ऊर्जमित्यपोऽभिषिञ्चति । कर्जमिति प्रतीकेन सम्पूर्णो मन्त्रो गृह्यने । अनेन मन्त्रेण पिण्डानामुपरि दक्षिणाग्रां जलधारां दद्यादित्यर्थः । पिण्डेषु गन्धादिदानमाह- विष्णुः । अर्धपुष्पधूपानुलेपनान्नाद्यभक्ष्यभोज्यं निवेदयेत् | उदपात्रं मधु-