पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

२७२ वीरमित्रोदयस्य श्राद्धप्रकाशे- → तिलाभ्यां संयुतं च । इदं च गन्धादिदानं तूर्ष्णी कार्यम्, "गन्धादि निक्षिपत्तूष्णीं तत आचामयेद् द्विजान्" इति परिशिष्टवचनादिति वाचस्पतिमिश्राः । हेमाद्रिस्तु । एतद्वः पितरो देवा देवाश्च पितरः पुनः । पुष्पगन्धादिधूपानामेवं मन्त्रमुदाहृतम् || इति ब्रह्मवैवर्तवचनान्मन्त्रपूर्वक मित्याह - कल्पतरौ ब्रह्मपुराणना- म्ना पठितमिद वचनम् गन्धदानोत्तरं ब्राह्मणानाचा मयेत्प्रागुकड़ न्दोगपरिशिष्टवचनात् । कात्यायन । अवधायावजिघ्रात यजमानः । अवधाय=पिण्डपात्रे पिण्डान् निधाय | अवधानं कृत्वेति भानूपाण्याय । अवजिघ्रति यजमानः, तत्संस्कारकं चेदं, स्तत्संस्कारकत्वं च "स यजमानभाग" इति वचनात् । अतश्चाध्वर्युकर्तृके पिण्डपितृयज्ञे श्रद्धे चाप्रतिनि धिकर्तृकं यजमानस्यैवेदम् | न चावधानस्याध्वय्वदिकर्तृकत्वेन भिन्नकर्त्तृकत्वात् क्त्वाप्रत्ययानुपपत्तिः । पूर्वकालतामात्र एव क्त्वाप्रत्य योपपत्तेः । निरूप्याजं प्रातहन मितिवदिति कर्कः । वस्तुतस्तु अवधाने यजमानस्य प्रयोजक कर्तृत्वेन समानकर्तृकत्वस्याप्युपपत्तिः | मनुनातु प्रत्यवनेजनानन्तरं भूमिस्थानामेव पिण्डानां क्रमेणावत्राणमुक्तम्- उदकं निनयच्छेषं शनै: पिण्डान्तिके पुनः । अवजित्रेच्च तान्पिण्डान्यथान्युप्तान् समाहितः ॥ यथान्युप्तानित्यनेन निर्वापक्रमेण पिडानामवघ्राणं दर्शितम् । अवघ्राणानन्तर कात्यायनः । उल्मुकसकृदा छिनाम्यग्नौ । आदघातीति शेषः । अत्र च सकृदाच्छिन्नं पूर्व क्षिपेत् सकदाच्छिन्नान्यन्नावभ्याददाति पुनरुल्मुकमपिसर्जति इति शतपथश्रुतेः । सूत्रे त्वजाद्यदन्तत्वादल्पाच्तरत्वाद्वा पूर्वनिपातः । आपस्तम्बेन तु उल्मुकापिसर्जने मन्त्र उक्तः, अभून्नोद्वतो हविषे । जातवेदा: प्रवाहव्यानि सुरभीणि कृत्वा । प्रादात्पितृभ्यः स्वध्या ते अक्षन्प्रजानन मे पुनरप्येतु देवानित्ये कोल्मुकं प्रत्यपिसृजति । गोभिलेन तु अनेनैव मन्त्र णोल्मुकाभ्युक्षणमुकम् । इति पिण्डदानम् ।