पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

२७४ वीरमित्रोदयस्य श्राद्धप्रकाशे- च परिशिष्टशातातपोकानां मन्त्राणामैच्छिको विकल्प इति मिश्राभिप्रायः । उदकादिदानं च पित्र्ये अपसव्येनेति कर्कः । शङ्खधरस्तु । "ततः पुष्पाणि सव्येन सोदकानि पृथक पृथक्" इति शातातपवच्चना सव्येनैवेत्याह । न चैतस्य देवपरत्वमिति वाच्यम् । आनर्थक्यापत्तेः । पृथक् पृथगित्यस्यानुपपत्तेश्च । अक्षथ्योदकं च दयादिति । दत्तानामन्नादीनामशयार्थमुदकमक्षय्यो- दकम् । इदं स्वाक्षय्योदकदानं (च) नामगोत्राभ्याम्, “उदङ्मुखेभ्यो दत्वा विश्वेदेवाः प्रीयन्तामिति प्राङ्मुखेभ्यः" इति वचनात्प्रथ मतः पिध्ये दत्वा पश्चाईवऽपि अक्षय्योदक देयमित्याहुः । अत एव व नामगोत्रोचारणपूर्वकत्वमपि भवति । अत्र गोत्रादिसम्बुद्धिस्थाने षष्ठी उक्ता- छन्दोगपरिशिष्ट । अक्षय्योदकदानं तु अर्धदानवदिष्यते । षष्ठयैव नित्यं तत्कुर्यान चतुर्थ्या कदाचन ॥ इति । अर्धदानवर प्रत्येक मक्षय्योदकदानं कुर्यादित्यर्थ इति इलायुषः । स्मातस्तु तन्त्रतानिवृत्तेः; "अर्धेऽक्षय्यादक चैव" इत्यनेनेव सिद्धेज्येष्ठोत्तरकरत्वप्राप्त्यर्थोऽतिदेश इत्याह । एवं च अमुकशर्मणोऽस्मत्पितुर्दतावादेरक्षय्य मस्त्विति पिडये वाक्यं बोध्यम् । दैवे तु पुरुरवाव संशका विश्वदेवा दत्तैतदन्नपानादिना प्रीयन्तामिति । अत्र ब्राह्मण हस्ते दयानामुदकादीनां धारणप्रबोजक भाविकार्याभावाच्छुचा देशे प्रक्षेपः कार्य इति हेमाद्रिः । पुनश्च तेषामुदकादिदानं कार्यमित्युक्तं - मस्स्यपुराणे | आचान्तेषु पुनर्दद्याजलपुष्पाक्षतोदकम् । दत्वाशीः प्रतिगृह्णीयाद् द्विजेभ्यः प्राङ्मुखो बुधः । स्वस्तिवाचनकं कुर्यात्पिण्डानुवषृत्य भक्तितः ॥ पुनः शब्देन चात्रेदं द्वितीयं दानमिति सूचितमिति हेमादिस्मृतिच न्द्रिकाकारप्रमुतयः । आशीर्ब्रहणप्रकारच कात्यायनेनोक्तः अघोराः पितरः सन्तु, सन्त्वित्युक्ते गोत्रं नो वर्द्धतां, वर्द्धतामित्युके, दातारो नोऽभिवदन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो मा व्यगमत् बहु देयं च नोऽस्त्विति ॥