पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

वरयाचनादिविचारः | २७५ आशिषः प्रतिगृह्येति । कचित्तु वेदैः सन्ततिरेव चेति पाठः । अत्र बहु देयं च नोऽस्त्वीत्यन्तं मन्त्रं पठित्वा । अनं च नो बहु भवेदिति श्रीश्च (१)लभेमहि | याचितारश्च नः सन्तु मा व याचिष्म कं चन ॥ इत्यधिकं बौधायनेन पठितम् । अत्र च वरयाचने क्रियमाणे दातार इत्येवमादावपि प्रतिवरं ब्राह्मणैर्यथालिङ्गं प्रत्युत्तरं देयम् । प्रार्थनासु प्रतिप्रोचे सर्वास्वेव द्विजोत्तमः | इति वचनादिति हेमाद्रिः | अन्यैस्त्वत्र प्रतिवचनं न लिखितम् । यत्तु स्मृतिचन्द्रिकाकारणेकात्यायनगृह्ये दातार इत्यादिकं नोक्तमित्युक्तं तत् (कर्म) कल्पतरुहलायुधादिसकलनिबन्धेषु पाठदर्शनादयुक्तम् । वरग्रहणे कालविशेषः प्रकारविशेषश्चोक्तो मनुना । विसृज्य ब्राह्मणास्तांस्तु नियतो वाग्यतः शुचिः । दक्षिणां दिशमाकाङ्क्षन याचेतेमान् वरान्पितॄन् ॥ [अ० ३ श्लो० २७८] विसृज्य= पीठेभ्यो मन्त्रेणोत्थाप्य | आकाङ्क्षन् =अवलोकयन् इति टीका । अत्र च पितॄनिति श्रवणात्पितृब्राह्मण एव वरयाचनं कार्यमिति हलायुषः । इदं च दक्षिणाभिमुखत्वं ब्राह्मणविसर्जनोत्तरकालत्वं च | प्रागुतमत्स्यपुराणवचनोकप्राङ्मुखश्व ब्राह्मणविसर्जनपूर्वकालत्वाभ्यां विकल्पते । स च विकल्पः शाखाभेदेन व्यवस्थितः । अथवा "विसृज्य ब्राह्मणांस्तांस्तु तेषां कृत्वा प्रदक्षिणम् । दक्षिणां दिशमाकाङ्क्षन्” इति मनुवचने आकांक्षन् =अवलोकयन् इति टीकाकृड्याख्यानात् प्रागुदङ्मुखेनैव दक्षिणां दिशमालोचयता याचनीयमित्याहुः । अत्र चा शीः प्रतिग्रहानन्तरं यजमानस्य पुत्रपौत्रादिभिः पिण्डनमस्कारः कार्यः, आचारादिति हेमाद्रिः । यद्यपि चाशीर्ब्रहणानन्तरं प्रागुदाहृतम स्स्यपुराणवचनात् पिण्डोद्धारणं कृत्वा स्वस्तिवाचनं कार्यमिति प्रतिभाति, तथापि पिण्डोद्धारणानन्तरं पात्रचालनं कृत्वा तत्कार्यम् । पात्रचालनमकृत्वा स्वस्तिवाचनस्य निषिद्धत्वात् । तथा च वृद्ध बृहस्पतिः । भाजनेषु च तिष्ठत्सु स्वस्ति कुर्वन्ति ये द्विजा । तदनमसुरैर्भुतं निराशैः पितृभिगतैः ॥ ( १ ) अतिथच लभमहीति अन्यत्र पाठ ।