पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धनकाशे- २७६ पात्रचालने कर्त्तार उक्ताः- प्रचेतसा । स्वयं पुत्रोऽथवा यश्च वाज्छेदभ्युदयं परम् । न स्त्रियो न च बालश्च नान्यजातिर्न चाव्रतः ॥ एतेन यत् श्राद्धे भोजनपात्राणि स्वयं न चालयेत् इति हेमाद्रिणोकं तनिरस्तम् । अवतो ऽनुपनीतः । एवं चोपनीतस्याप्यज्ञस्य निवृत्यर्थं बालग्रहणम् । स्वस्तिवाचनप्रकारस्तु - पारस्करेणोकः, "स्वस्ति भवान् ब्रूही" ति । माज्ञवल्क्येन तु अक्षय्यदानात्पूर्व स्वस्तिवाचनमुक्तं, तथा च क्रमभेदः शास्त्राभेदेन व्यवस्थितो द्रष्टव्यः । कात्यायनः । - स्वधावाचनीयान्सपवित्रान्कुशानास्तीर्य स्वर्धा वाचयिष्य इति पृच्छति वाच्यतामित्यनुज्ञातः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यः स्वधोच्यताम्, अस्तु स्ववेत्युच्यमाने स्वथावाचनीयेष्यपो निषिञ्चति । स्वधावाचनीयसंशका ये कुशास्ते सपवित्राः साम्रत्वादिगुण- विशिष्टाः कार्या इति कर्क | हलायुधहेमाद्रिशूलपाणिप्रभृतयस्तु सपवित्रान् = अर्धसम्बन्धिपवित्रसहितानित्याहुः । मैथिलास्तु नार्धसम्बन्धिपवित्र ग्रहणं, विना वचनं विनियुक्त विनियोगस्यायुतत्वात्, अन्यथा पिण्ड रेखायामपि अर्घसम्बन्धिपवित्रस्य ग्रहणापत्तेः, तस्मात्पवित्रान्तरमे वात्र ग्राह्यमित्याहुः | आस्तीर्य = भूमावितिशेषः । पिण्डानामुत्तरतो दक्षिणाप्रानिति हेमाद्रिः । अत्र पितृभ्य इत्यादौ एकस्वेऽपि बहुवचनं प्रयोगमात्रं ( १ ) पाशवत् | प्रकृत्यंशस्य तु समवेतार्थकत्वा शव दैवस्या. दावूहसिद्धेः । स्वघोच्यतामिति च प्रत्येकमनुषञ्जनीयम् | "स्वधाव. मन एव च " इति छन्दोगपरिशिष्टे तन्त्रतानिषेधात् । अत एव अस्तु स्वघेति प्रत्युत्तरमपि प्रत्येक मेवोक्तम् । भविष्ये । , अस्तु स्वघेति षड्वारा कुर्युर्विप्राः सुसम्भ्रमा इति । मैथिलास्तु यथाश्रुतसुत्रानुसारात्सकृदेव स्वघोच्यतामस्तु स्व घेति वक्तव्यमित्याहुः । अपां निषेचनं "ऊर्जे वहन्तीत्यनेन मन्त्रण कार्यमित्युक्तम् । ( १ ) पूर्वमीमांसा अ० ९ पा० ३ अधि० ४ सु० १०- १४ ।