पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणादानविचारः | सपवित्रान्कुशान्साग्रानास्तीर्थ सतिलांस्ततः । ततः सम्भवपात्रेभ्यो जलमादाय चार्चितः ॥ ऊर्जे वहन्तीति जपन्पिण्डांश्चाप्यवसिञ्चति । पिण्डांब्बति । चकारो दर्भसमुबयार्थः । अतश्चेदं शाखिविशेषव्य- वस्थितम् । वाजसनेयिनां तु दर्भेष्वेव, कर्कहेमाद्रि रायमुकुटादिस्वरसो ऽप्येवम् | मैथिलास्तु तेषां पिण्डेब्वेवेत्याहुः । छन्दोगानां तु पिण्डेषु पवित्राच्छादितेषुः "पवित्रान्तर्हितान्पिण्डान् सिञ्चेदुत्तानपात्रकृत्" इति छन्दोगपरिशिष्टात् । इदं व निषेचनं प्रागुकब्रह्मवचनादर्घसंस्रव जलेन कार्यमिति हेमाद्रिः । मिताक्षराकारस्तु कमण्डलुजलेनेत्याह | निषे चनानन्तरम् । ब्रह्मपुराणे | कात्यायनः । उत्तानं पात्रं कृत्वा यथाशक्ति दक्षिणां दद्यात् ब्राह्मणेभ्यः | न्युब्जीकृतं पितुरर्धपात्रमुत्तानीकृत्य दक्षिणां दद्यात् । एवं च "पवित्रान्तर्हितान्पिण्डान्सिञ्चेदुत्तानपात्रकृत्” इति उत्तरत योज्यम् । अत एव । २७७ गोमिलोऽपि । अपो निषेचनानन्तरमुठानं पात्रं कृत्वा यथाशक्ति दक्षिणां दद्यादित्याह । नारायणमातभट्टाचार्यादयस्तु उत्तानपात्र कृत्सिवेदिति परिशिवचनं व्याख्यायोप्तानं पात्रं कृत्वा निषेचनं कुर्यादित्याहुः । अत्र च येषां मातामहपात्रस्यापि पूर्व न्युब्जीकरणं कृतं तेषां मते तस्यापि उत्तानता कार्या| यदा तु शूलपाण्यादिमतमाश्रित्य केवलं पितृपात्रस्यैव म्युब्जीकरणं कृतं तदा तस्यैषोतानत्वमिति विवेकः । एवं (च) नवदैवत्यादावपि बोध्यम् । केचित्तु त्रयाणामपि पात्राणां म्युब्जीकरणमिच्छन्ति तम्मते सर्वेषामप्युचानश्वम् । अत्र च पित्र्युद्देशेन दक्षिणादाने कृतेऽपि "ब्राह्मणान्भोजयित्वा तु दद्याच्छच्या च दक्षिणाम्" इति वचनात्कर्मकरत्वाच ब्राह्मणानां स्वत्वमुत्पद्यते, यथा देवताप्रतिष्ठादौ "प्रतिष्ठाप्य देवतायै सङ्कलिते वस्त्राभरणादौ सर्वमुपकरणमाचार्वाय दद्यात्" इति वचनात् कर्मकरत्वाचाचार्यस्य स्वत्वमुत्पद्यते एवमिहापीति स्मृतिषन्द्रिका | माधणमद-