पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

२७८ वीरमित्रोदयस्य श्राद्धप्रकाशे- नरस्नादयस्तु ब्राह्मणोद्देशेन वा दक्षिणादानं पित्र्युद्देशेन वा । अत एव देवलपारस्कराभ्यां पक्षद्वयमुक्तं "आचान्तेभ्यो द्विजेभ्यस्तु प्रयच्छेद्दक्षिणाम्” इति, “हिरण्यं विश्वेभ्यो देवेभ्यो रजतं पितृभ्य इति च तत्र यदा ब्राह्मणोद्देशेन तदा यज्ञोपवीतिना कार्य "सर्वे कर्मापसव्येन दक्षिणा दानवर्जितम्” इति जमदग्निवचनात् । यत्तु तेनैवोकं अप- सव्यं तत्रापि, "मत्स्यो हि भगवान्मेने” इति, तत्पितॄनुदिश्य दानपक्षे इत्याहुः । एतच्च दक्षिणादानम् | यत्र यत्क्रियते कर्म पैतृकं ब्राह्मणान्प्रति । तत्सर्वं तत्र कर्त्तव्यं वैश्वदेवत्यपूर्वकम् || इति देवळवचनादेवपूर्वकं कार्यमिति वाचस्पतिः । तन्न । “दक्षिणां पितृविप्रेभ्यो दद्यात्पूर्व ततो द्वयोः" इति देवलेनैव दक्षिणापुरस्कारेण विपरीतक्रमविधानात् । पितृभ्यः प्रथमं भक्त्या तम्मनस्को नरेश्वरः । सुस्ववेत्याशिषा युक्तां दद्याच्छक्त्वा च दक्षिणाम् ॥ इति विष्णुस्मरणाच्च । न च देवळवचने पितृविप्रेभ्य इति श्रवणात् ब्राह्मणोद्देश्यकत्वावगतिः, तदुद्देश्यकदक्षिणादानपक्षेऽपि एत- स्योकत्वात् तस्मादुभयथापि पित्राद्यैव देया, शूलपाणिपितृदयितादिष्वेवम् । अत्र च दक्षिणाद्रव्यपरिमाणादिकं द्रव्यनिर्णवप्रकरणे प्रागुतं वेदि तब्यम् । अत्र च ब्राह्मणोद्देशेन दक्षिणादानपक्षे अयं प्रयोगक्रमः, इदं हिरण्यमग्निदेवतममुक गोत्रायामुकशर्मणे ब्राह्मणाय सम्प्रददे इति पित्रादिसम्बन्धिब्राह्मणेभ्यः प्रत्येकं दद्यात् | "दद्याच्चैव द्विजातिभ्यः प्रत्येकं वाक्यपूर्वक" मिति भविष्योत्तेः, यदा तु पिज्युद्देशेन दक्षिणादानं तदा अमुकगोत्रायास्मत्पित्रेऽमुकशर्मण इदं रजतं चन्द्रदैवतं स्वधेत्यादि वाक्यं बोध्यम् । दक्षिणादानानन्तरं - कात्यायनः । विश्वेदेवाः प्रीयन्तामिति दैवे वाचयित्वा वाजे वाजेऽवत इति विसृज्य आमावाजस्येत्यनुव्रम्य प्रदक्षिणीकृत्योपविशेत् । वाचनं च विश्वदेवाः प्रीयन्तामिति ब्रूहीति देवब्राह्मणप्रेरणरूपं कार्यमिति भानूपाध्यायहलायुधप्रभृतयः | श्रीयन्तामिति तैश्चो के देवताभ्य इति त्रिः पठनीयम् | आद्यावसान इति प्रागुतब्रह्मपुराणवचनात् ।