पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

पिण्डप्रतिपत्तिनिर्णयः । भविष्येऽपि । ततो देवद्विजाभ्यां तु प्रार्थयेद् वचनं त्विह । विश्वेदेवाः प्रीयन्तामिति ब्रूतां युवामिति ॥ तौ वदेतां प्रीयन्तामोमित्येव तु सकृद्वचः | ततः पठेद्देवताभ्यः पितृभ्यश्चेत्यमुं त्रिशः ॥ स्मार्त्तपितृदयितादयोऽप्येषम् । विसर्जनात्पूर्वकृत्यमाहू- याज्ञवल्क्यः । इत्युक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् । [ अ० १ श्राद्धप्र० श्लो० २४७] भवद्भिरहं कृतार्थीकृत इत्यादि प्रिया वाचयोक्त्वा प्रणिपत्य विसर्जयेदित्यर्थः । विसर्जनं च पितृपूर्व कार्यमित्याह - स एव । बाजे बाज इति प्रीतः पितृपूर्व विसर्जयेत् । इति । अत्र च विसर्जन मुदकपात्रं गृहीत्वा कार्यमित्युक्तं मत्स्यपुराणे | तत्र वायुपुराणे । ततस्तानमतो स्थित्वा प्रतिगृह्योदपात्रिकम् । वाजे बाज इति जपन् कुशाग्रेण विसर्जयेत् ॥ अत्र प्रतिब्राह्मणं मन्त्रावृत्ति | कुशाग्रस्पर्शपूर्वकविसर्गस्य स विप्रविषयस्य युगपत्कर्तुमशक्यत्वादिति अपरार्क: । इति विसर्जनं [च] ब्राह्मण स्थपितॄणां न ब्राह्मणानां बेषामावाहनं तेषामेव विसर्जनस्य युकत्वाद, अतश्चापात्रकश्राद्धेऽपि विसर्जनं भवत्येवेति स्मार्त्तः । इति विसर्जनम् । अथ पिण्डप्रतिपत्तिः । पिण्डमग्नौ सदा दद्याद् गोत्रार्थी सततं नरः । पत्न्यै प्रजार्थी दद्यात्तु मध्यमं मन्त्रपूर्वकम् || उत्तमां गतिमन्विच्छन् गोभ्यो नित्यं प्रयच्छति । २७९ आशां प्रशां यशः कीर्त्तिमप्सु नित्यं निधापयेत् ॥ प्रार्थयेदीर्घमायुश्च वायसेभ्यः प्रयच्छति । 1