पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोत्तरकर्मनिरूपणम् | २८१ द्विजभुक्तावशिष्टं तु सर्वमेकत्र संहरेत् । शुचिभूमौ प्रयत्नेन निखन्याच्छादयेद् बुध | अथ श्रादोत्तरं कर्म । तत्र - देवलः । निवृत्ते पितृमेधे तु दीपं प्रच्छाद्य पाणिना । आचम्य पाणि प्रक्षाल्य ज्ञातीच्छेषेण तोषयेत् ॥ प्रच्छाय= निर्वाप्य | अत्र विशेषो- मास्थ्ये । निवृत्य प्रणिपत्याथ पर्युक्र्याग्निं समन्त्रावत् । वैश्वदेवं प्रकुर्वीत नैत्यकबलिमेव च । इदं च श्राद्धोत्तरं वैश्वदेवकरणं निरग्निविषयम् । पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः । पितृयशं ततः कुर्याचतोऽन्वाहार्यकं बुधः || इति लौगाक्षिणा सानिकस्य श्राद्धात्पूर्वमेव वैश्वदेवस्य विहितत्वात् पक्षान्त=अन्वाधानम् | अन्वाहार्य =दर्शश्राद्धम् । अत्र च साझिकपदं भौतानिपरमिति हेमाद्रिः । साग्निकस्यापि क्वचिदपवाद उक्त:-- परिशिष्टे । सम्प्राप्ते पावणे श्राद्ध एकोदिष्टे तथैव च । अतो वैश्वदेवः स्यात्पश्चादेकादशेऽहनिम || यद्यपि चात्र न सान्निकश्रवण, तथापि निरनिकस्य सर्वदेव श्रद्धोत्तरं वैश्वदेविक विधानादिदं साग्निकपरमेव युक्तम् । मिरग्निकस्य वैश्वदेवे कालान्तरमुक्तम्- ब्रह्माण्डे । (१) वैश्वदेवं हुने स्वनौ अर्थाग ब्राह्मणभोजनात् । जुहुयाद् भूतयज्ञादि श्राद्धं कृत्वा तु तस्स्मृतम् ॥ हुते अग्नौ = अग्झौ करणोत्तर मित्यर्थः । भविष्येऽपि । पितृसन्तर्प्य विधिवद् बलिं दद्याद्विधानतः । वैश्वदेवं ततः कुर्यात् पश्चाद् ब्राह्मणवाचनम् । बलि =विकरबालः । अस्मिन्नपि पक्षे वैश्वदेवमात्रं तस्मिन्काले, ( १ ) वैश्वदेवाहुनीनौ इति मयूखोद्धृत पाठ । वी० मि ३६